SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ । पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव चिरं निविर्शतां पुण्यपरमाणुकणोपमम् ।। ७७॥ मद्दशौ त्वन्मुखासक्ते हर्षवाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात् क्षालयतां मलम् ।। ७८ ॥ त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किंणावलिः ॥ ७९ ॥ ... मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥ ८॥ त्वद्वक्रान्तिज्योत्स्नासु निपीतासु सुधाविव । मदीयैौचनाम्भोजैः प्राप्यतां निर्निमेषता ।। ८१॥ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥ ८२॥ कुण्ठाऽपि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि स्वस्त्येतस्यै किमन्यया? ॥ ८३ ॥ तव प्रेष्योऽसि दासोऽस्मि सेवकोऽस्म्यसि किङ्करः । ओमिति प्रतिपद्यख नाथ! नातः परं ब्रुवे ॥८४॥ - स्तुत्वैवं पञ्चधाभूयेशानादादाय च प्रभुम् । प्राग्वच्छत्रादिभृच्छकः स्वामिवेश्म क्षणाद् ययौ ॥८५॥ तत्रापेखापनीमहत्प्रतिबिम्बं च सोऽहरत् । देव्याः पार्श्वे च निदधे तया स्थित्या जगत्पतिम् ॥ ८६॥ खामिहात् ततः शक्रो मेरुतोऽन्ये तु वासवाः । पथा यथाऽऽगतेनैव खं स्वं लोकं ययुः क्षणात् ॥ ८७॥ __ राज्ञाऽपि विदधे प्रातः सूनुजन्मोत्सवो महान् । हर्षस्यैकातपत्रत्वजनकः सकले जने ॥८८॥ कुलं राज्यं पुरी चात्राऽभ्यनन्दद् गर्भगे हि तत् । अभिनन्दन इत्यस्य पितरौ नाम चक्रतुः॥८९॥ _*निवसतां संवृ०॥ , अप्रेक्ष्यप्रेक्षणम्-अदर्शनीयदर्शनम् । २ "रूढवणपदं किणः" । ३ उपास्ति:-उपासना, करौकरौि । कर्णो । ५ अपस्वापनी नाम विशेषरूपा निद्रा, यया जनः प्रत्यक्षमपि न किमपि जानाति, मूर्छित इव भास्ते ।। स्वं स्थानं य° सङ्घ०॥ Jain Education Intern For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy