SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते महाकाव्ये ॥३०३॥ । ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । माघशुक्ल द्वितीयायामभीचिस्थे क्षपाकरे ॥ ६२॥ तृतीयं पर्व सिद्धार्था स्वामिनी सूनुमनूनं तेजसा रवेः। सुखेन सुषुवे स्वर्णवणं प्लवगलाञ्छनम् ॥ ६३ ॥ द्वितीय: लोकत्रयेऽपि युगपदुयोतोऽभूत् तदा क्षणम् । क्षणं च सौख्यमुत्पेदे नारकप्राणिनामपि ॥६४॥ सर्गः षट्पञ्चाशद् दिक्कुमार्यः स्वस्वस्थानादुपेत्य ताः । देव्याः सूनोश्च विदधुः सूतिकर्म यथोचितम् ॥६५॥15अभिनन्दनविज्ञायाऽऽसनकम्पेन शक्रोऽर्हजन्म तत् तदा । आययौ पालकारूढः खामिवेश्माऽमरैः सह ।। ६६ ।। द जिनशको विमानादुत्तीर्य प्राविशत् खामिवेश्म तत् । तत्र च स्वामिनं खामिजननी च नमोऽकरोत् ॥६७॥ चरितम् । दत्त्वाऽपखापनी देव्याः पार्श्वे सौधर्मवासवः । निधायार्हत्प्रतिच्छन्दं पञ्चरूपोऽभवत् खयम् ॥६८॥ एकः शक्रः प्रभु दधेऽन्यश्छत्रं द्वौ च चामरे । कुलिशं नर्तयन्नन्यो नृत्यन्निव ययौ पुरः ॥ ६९॥ प्राप मेरावतिपाण्डुकम्बलां स क्षणाच्छिलाम् । तत्सिंहासनमध्यास्त शक्रोऽङ्कारोपितप्रभुः ॥७॥ तत्राऽच्युतादयोऽपीन्द्रास्त्रिषष्टिः सपरिच्छदाः । समेत्याऽस्नपयन् नाथमम्भस्कुम्भैर्यथाविधि ॥ ७१॥ पञ्चमूर्तीभूयेशानोऽप्यङ्के स्वामिनमादधे । एकश्छत्रं चामरे द्वौ शूलमन्यः पुरःसरः ॥ ७२ ॥ विचके स्फाटिकानुक्ष्णश्चतुरो दिक्चतुष्टये । तच्छृङ्गोत्थैर्जलैः शक्रोऽस्नपयत् परमेश्वरम् ॥७३॥ प्रभुं विलिप्य सम्पूज्य वस्त्रालङ्करणादिना । उत्तार्याऽऽरात्रिकं चेत्थं शक्रः प्राञ्जलिरस्तवीत् ॥ ७४ ।। ____ स्वामिश्चतुर्थतीर्थेश! चतुर्थारनभोरवे! । चतुर्थपुरुषार्थश्रीप्रकाशक! जय प्रभो॥ ७५ ॥ चिरान्नाथेन भवता सनाथमधुना जगत् । विवेकचौरैर्मोहाद्यैर्नैवोपद्रोष्यते क्वचित् ॥ ७६॥ ॥३०३॥ .. पञ्चरूपाणि कृत्वा । २ उक्ष्णः बलीवर्दान् । * चिरं ना संवृ०॥ Jain Education Int For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy