SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अबाधितौ मदस्थानः सर्वैर्धर्माविबाधया । दम्पती बुभुजाते तो तत् तद् वैषयिकं सुखम् ॥४८॥ इतो विमाने विजये त्रयस्त्रिंशतमर्णवान् । जीवो महाबलस्याऽऽयुः सुखमनोऽत्यवाहयत् ॥४९॥ वैशाखसितचतुर्थ्यामभीचिस्थे निशाकरे । ततश्युत्वा स सिद्धार्थादेवीकुक्षाववातरत ॥५०॥ ज्ञानत्रयधरे तत्राऽवतीर्णे त्रिजगत्यपि । उसोतोऽभूत् सुखं चाऽऽसीभारकप्राणिनामपि ॥५१॥ सुखसुप्ता तु सा देवी निशायाः प्रहरेऽन्तिमे । मुखे प्रविशतोऽद्राक्षीन्महावमांश्चतुर्दश ॥५२॥ ___ श्वेतवर्णश्चतुर्दन्तः करी कुन्दद्युतिवृषः । व्यात्तवको हरिर्लक्ष्मीरभिषेकमनोरमा ॥५३॥ पञ्चवर्णा च पुष्पस्रक पूर्णश्च रजनीकरः । द्योतमानश्च मार्तण्डः किङ्किणीमालितो ध्वजः॥५४॥ पूर्णकुम्भश्च सौवर्णः पप्रच्छन्नं महासरः । उत्तरङ्गः सरिन्नाथो विमानं च मनोरमम् ॥ ५५॥ रुचिरो रत्नपुञ्जश्च निधूमश्च विभावसुः । प्रबुद्धा स्वामिनी खमानेतान् राजे शशंस च ॥५६॥ एभिः स्वमैस्तव देवि! भावी त्रिजगदीश्वरः । नूनं सूनुरिति स्वमान् पार्थिवोऽपि व्यचारयत् ॥ ५७॥ इन्द्रा अपि समेत्यैवं खमार्थ व्याचचक्षिरे । चतुर्थस्तीर्थनाथस्ते देवि! सूनुभविष्यति ॥५८॥ तं देव्यपि निशाशेष जाग्रेत्येवाऽत्यवाहयत् । निद्रा दरं ययौ तस्या हर्षेणेवाऽपहर्तिता ॥ ५९॥ सिद्धार्थास्वामिनीकुक्षौ गर्भः सोऽथ दिने दिने । पत्रकोशे बीजकोश इव गूढमवर्धत ॥६॥ चतुर्दश स्वमाः अभिनन्दनजिनजन्मजन्मोत्सव Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy