SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अभिनन्दनजिनजन्म नगरी पितरौ च तत्र क्रीडामपरीभिराकृष्याऽऽकृष्य लम्बितैः । हारैः कल्पद्रुमायन्ते गृहाणामङ्गणदुमाः ॥ २३॥ चन्द्रकान्ताश्मनिःस्यन्दैस्तत्रोच्चैश्चैत्यपतयः । उदारनिर्झरोद्गारगिरिलीलां वितन्वते ॥ २४ ॥ चैत्याग्रे रत्नबद्धोर्व्यस्तत्र सङ्क्रान्ततारकाः। विभान्ति देवतामुक्तकुसुमाञ्जलिविभ्रमाः॥२५॥ तत्र खेलायमानाढ्यललना गृहदीर्घिकाः । निर्यदप्सरसो लक्ष्मी हरन्ति क्षीरनीरधेः॥ २६ ॥ तत्र चाऽऽकण्ठमनानां गौराङ्गीणां मुखैः क्षणम् । कनकाम्भोजमालिन्यो राजन्ते गृहदीर्घिकाः ॥ २७॥ उद्यानविपुलैस्तत्र श्यामायन्ते बहिर्भुवः । अधित्यका भुव इव गिरेरिधरैनवैः॥ २८॥ वप्रो वर्लयितस्तत्र महादीर्घिकया भृशम् । धुसद्दीर्घिकयेवाऽष्टापदशैलो विराजते ॥ २९ ॥ तत्राऽनुवेश्म दातारो दिवि कल्पद्रुमा इव । सर्वदा सुलभा एव दुर्लभाः पुनरर्थिनः॥३०॥ बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । नृपतिः संवरो नाम सर्वारिश्रीखयंवरः॥३१॥ तस्याऽऽज्ञासाधिताशेषभूतलस्मैकभूभुजः। द्रविणं कृपणस्येव न कोशानिर्ययावसिः ॥ ३२ ॥ महाभुजेन तेनोग्रप्रतापप्रभविष्णुना। एकच्छत्रा मही चक्रे द्यौरिवैकनिशाकरा ॥ ३३ ॥ स दृढं वसुधां दधे दिग्यात्रायायिनोऽन्यथा । अस्स सेनाभरेणैषा विशीर्यंत सहस्रशः ॥ ३४ ॥ विभ्रमः शोभा सौन्दर्यम् । २ निर्यत्यः निस्सरन्त्यः अप्सरसः यस्मात् स निर्यदप्सराः तस्मात् । क्षीरनीरधिविशेषणमिदम् ॥ * रसो (सः) क्रीडां ह° संवृ०॥३ अधित्यकाः पर्वतस्य ऊर्द्धभूमयः॥ ४ वलयितः वर्तुलीभूतः ॥ ५ गुसदीर्घिका देववापी॥ ६ सर्वारीणां श्रियं स्वयं परानपेक्षया वृणोतीति सर्वारिश्रीस्वयंवरः ॥ ७ कोशः खनावरणम् , 'म्यान' इति प्रसिद्धम् , निधिश्च इति यर्थः । ८ दिग्यात्रा विजययात्रा ॥ त्रिषष्टि, ५२ JainEducation inal For Private & Personal Use Only MAIL www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy