________________
त्रिपष्टि
शलाका
पुरुष चरिते महाकाव्ये |
॥ ३०१ ॥
Jain Education Intern
दुर्जनैर्निन्द्यमानः सन् हृदये मुमुदे चिरम् । साधुभिः पूज्यमानस्तु प्रत्युत त्रयंते स्म सः ॥ १२ ॥ न मनागप्युद्विविजे क्लिश्यमानोऽपि पापिभिः । महद्भिः पूज्यमानोऽपि स नोत्सेकमशिश्रियत् ॥ १३ ॥ उद्यानादिषु रम्येषु नाsरज्येद् विहरन्नसौ । सिंहव्याघ्रादिघोरेषु नाऽरण्येषु व्यरज्यत ॥ १४ ॥ हेमन्ते हिमगहनाः क्षपयामास स क्षपाः । बहिः प्रतिभैया तिष्ठन्नालानमिव निश्चलः ॥ १५ ॥ ग्रीष्मे सूर्योमभीमेऽपि कृतोत्सर्गः स आतपे । नाऽम्लायद् दिद्युते किन्तु वह्निशौचमिवांऽशुकम् ॥ १६ ॥ प्रावृषि क्ष्मारुहतले तस्थौ प्रतिमया च सः । मतङ्गज इव ध्याननिष्पन्दनयनद्वयः ॥ १७ ॥ तपांस्येकावली-रत्नावलीप्रभृतिकानि सः । सर्वाण्यनेकशोऽकार्षीदतृप्तोऽर्थार्जनं यथा ॥ १८ ॥ विंशतेः स्थानकानां च मध्यात् कतिपयैरपि । स्थानकैरर्जयामास तीर्थकुन्नामकर्म सः ॥ १९ ॥ चिरं व्रतं पालयित्वा प्रपन्नानशनः स तु । मृत्वा विमाने विजये महर्द्धिरभवत् सुरः ॥ २० ॥
इतच जम्बूद्वीपस्य द्वीपस्य भरताभिधे । क्षेत्रेऽस्त्ययोध्येति पुरी पुरन्दरपुरीसमा ॥ २१ ॥ प्रतिवेश्म मणिस्तम्भ सङ्क्रान्तो रजनीकरः । तत्र स्थावरशृङ्गारादर्शलक्ष्मीं प्रपद्यते ॥ २२ ॥
१ त्रपते लज्जते ॥ २ उत्सेकं गर्वम् ॥ ३ अरज्यद् रागं चकार ॥ ४ व्यरज्यत विरागं चकार ॥ ५ प्रतिमया विशिष्टध्यानधारणरूपया क्रियया ॥ ६ आलानं हस्तिबन्धनस्तम्भः ॥ ७ कृतोत्सर्गः कृतकायोत्सर्गः ध्यानप्रवृत्तये कृतनिश्चलकायः ॥ * ° पे । धाम्ना यद् सबृ० ॥ ९ वह्निशौचम् अनितापेन पवित्रम् । यथा अंशुकं वस्त्रं वह्निजन्यउष्णोदकेन अधिकं द्योतते स्म तथा अयमपि ध्यानस्थितः महाबल श्रमणः ग्रीष्मतापेन न म्लायति स्म किन्तु द्योतते स्म ॥ १० एकावली -रत्नावली शब्दौ तपो विशेषवाचकौ । अनयोश्च वृत्तान्तं तपोरत्नमहोदधिनामक ग्रन्थतो बोध्यम् ॥ ११ स्थावरः स्थिरः । तत्र मणिस्तम्भसङ्क्रान्तः चन्द्रः स्थिरदर्पण इव जातः इति भावः ॥
For Private & Personal Use Only
तृतीयं पर्व द्वितीयः सर्गः अभिनन्दन जिनचरितम् ।
॥३०१ ॥
www.jainelibrary.org