SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter द्वितीयः सर्गः । श्रीअभिनन्दनजिनचरितम् । गुणडुनन्दनं श्रीमत्संवरोवींशनन्दनम् । जगदानन्दनं वन्दे जिनेन्द्रमभिनन्दनम् ॥ १ ॥ तस्य प्रभोर्भव्यजैन मोहनिद्रादिवार्मुखम् । तत्त्वज्ञानसुधाकुम्भं वक्ष्ये चरितमुज्वलम् ॥ २ ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरी । अस्ति श्रीमङ्गलकुलं विजयो मङ्गलावती ॥ ३ ॥ तस्यामस्ति समस्तानां रत्नानामाकरोऽब्धिवत् । वसुन्धराशिरोरत्नं पूरेनं रत्नसञ्चया ॥ ४ ॥ तस्यामासीन्महाराजो राजराज इव श्रिया । महाबलो नाम बलान्महाबल इवाऽपरः ॥ ५ ॥ उत्साह-मन्त्र-प्रभुताशक्तिभिः स व्यभासत । गङ्गा-सिन्धु-रोहितांशानदीभिर्हिमवानिव ॥ ६ ॥ स उपायैश्चतुर्भिश्च द्विषद्वर्गविजित्वरैः । चकासामास दशनैरिव निर्जरकुञ्जरः ॥ ७ ॥ देवमर्हन्तमेवैकं साधुमेव गुरुं पुनः । धर्मं जिनोपज्ञमेवाऽऽतिष्ठते स्म स धीनिधिः ॥ ८ ॥ दान- शील- तपो - भावभेदाद् धर्मे चतुर्विधे । सोऽरंस्ते महतां यस्मात् पुण्यं पुण्यानुबन्धकम् ॥ ९ ॥ स विवेकी भवोद्विग्नः सर्वत्रानित्यतां विदन् । नाऽतुष्यच्छ्रावकधर्मे देशमात्रविरामिणि ॥ १० ॥ ततो विमलसूरीणां पादान्ते दान्तपुङ्गवः । सोऽग्रहीत् सर्वविरतिं त्रतोच्चारणपूर्वकम् ॥ ११ ॥ * 'जन्तुमो संवृ० ॥ १ दिवामुखं प्रातः कालः ॥ २ पूर्षु-नगरेषु रत्नं पूरनम् ॥ + नः । अकर्तृकं जगदिवाति संवृ● मो० ॥ ३ आतिष्ठते प्रतिजानीते, तदेव सत्यमिति प्रतिज्ञां करोति ॥ ४ अरंस्त रतिं चकार ॥ For Private & Personal Use Only अभिनन्दन जिनपूर्वभव चरितम् । www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy