SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ॥३००॥ Jain Education In 1 सुरासुराणामधिपास्तदानीं सपरिच्छदाः । तत्रैत्य भक्तितस्तस्थुः सेवमाना जगत्प्रभुम् ॥ ३९९ ॥ मासान्ते सम्भवस्वामी सर्वयोगनिरोधिनीम् । शैलेशीं शैलनिष्कम्पः प्रपेदे ध्यानमन्तिमम् ॥ ४०० ॥ चैत्रस्य सितपञ्चम्यां विधौ मृगशिरः स्थिते । सिद्धानन्तचतुष्कोऽगाव्याबाधं पदं प्रभुः ॥ ४०१ ॥ सहस्रं मुनयस्तेऽपि स्वामिनोंऽशा इवामलाः । तेनैव विधिना प्रापुस्तदेव परमं पदम् ॥ ४०२ ॥ पूर्वलक्षाः कुमारत्वे ययुः पञ्चदश प्रभोः । चतुश्चत्वारिंशद् राज्ये सपूर्वाङ्गचतुष्टयाः ॥ ४०३ ॥ प्रव्रज्यायां पूर्वलक्षं चतुष्पूर्वाङ्गवर्जितम् । इत्यायुः पूर्वलक्षाणि षष्टिः श्रीसम्भवप्रभोः ॥ ४०४ ॥ अजितस्वामिनिर्वाणात् कोटिलक्षेषु त्रिंशति । सागराणां गतेष्वासीन्निर्वाणं सम्भवप्रभोः ॥ ४०५ ॥ तत्राऽथ सम्भवजिनाधिपतेः शरीरसंस्कारमन्यदपि कर्म यथावदिन्द्राः । चक्रुर्विभज्य जगृहुथ यथार्हमेते, दंष्ट्रा रदान् दिविषदः पुनरस्थिजातम् ।। ४०६ ॥ स्वं स्वं स्थानं जग्मुरिन्द्राः सुराश्च, स्वाम्यस्थीनि स्थापयामासुरुच्चैः । अर्चाहेतोर्माणवस्तम्भमूर्ध्नि, तीर्थेशानामर्चनीयं न किं वा ॥ ४०७ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीसम्भवस्वामिचरितवर्णनो नाम प्रथमः सर्गः ॥ For Private & Personal Use Only तृतीयं पर्व प्रथमः सर्गः सम्भवजिनचरितम् । ॥३००॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy