________________
Jain Education
ततश्च स्वामिनं नत्वा सुरासुर - नृपादयः । खं खं स्थानं ययुः सर्वे मुदा वीतोत्सवा इव ॥ ३८४ ॥ तीर्थे तत्र समुत्पन्नस्त्रिमुखो नाम यक्षराट् । त्रिनेत्रस्त्रिमुखः श्यामः पड्बाहुर्बर्हिवाहनः ।। ३८५ ।। दक्षिणैर्नकुलधर - गदाभृद भयप्रदैः । युतो वामैर्भुजैर्मातुलि-नागा- क्षत्रिभिः ॥ ३८६ ॥ तीर्थे तत्रैव चोत्पन्ना दुरितारिरभिख्यया । चतुर्भुजा गौरवर्णा मेषवाहनगांमिनी ॥ ३८७ ॥ दक्षिणाभ्यां भुजाभ्यां तु वरदेनाऽक्षसूत्रिणा । वामाभ्यां शोभमाना तु फणिनाऽभयदेन च ॥ ३८८ ॥ त्रिमुखो दुरितारिव ततः शासनदेवते । सन्निधाने सदा भर्तुरभूतामात्मरक्षवत् ॥ ३८९ ॥
ततः स्थानात् प्रभुरपि साधुभिः परिवारितः । चतुस्त्रिंशदतिशयान्वितो व्यहरदन्यतः ॥ ३९० ॥ विभर्विहरतोऽभूवन् द्वे लक्षे त्रतिनामथ । व्रतिनीनां तु पट्त्रिंशत् सहस्राणि त्रिलक्ष्यपि ॥ ३९९ ॥ सर्वपूर्वभृतां साध शतानामेकविंशतिः । शतानि च षण्णवतिरवधिज्ञानशालिनाम् ।। ३९२ ॥ तुज्ञानिनां द्वादश सहस्राः सार्धकं शतम् । सहस्राणि पञ्चदश केवलज्ञानिनां पुनः ॥ ३९३ ॥ वैयिलब्धिसहस्राविंशतिर्द्विशतोनिता । द्वादशैव सहस्राणि वादलब्धिमतां पुनः ।। ३९४ ॥ सहस्रैः सप्तभिन्ना श्रावकाणां त्रिलक्ष्यथ । श्राविकाणां च पलक्षी सपट्त्रिंशत्सहस्रिका ।। ३९५ ॥ आरभ्य केवलात् पूर्वलक्षं व्यहरत प्रभुः । चतुर्दशाब्द्या च चतुःपूर्वाङ्गया च विवर्जितम् ।। ३९६ ॥ ज्ञात्वाssत्मनो मोक्षकालं सर्वज्ञो भगवानथ । सम्मेतशैलशिखरं जगाम सपरिच्छदः || ३९७ ॥ समं मुनिसहस्रेण तत्र च प्रत्यपद्यत । पादपोपगमं नामानशनं सम्भवप्रभुः ॥ ३९८ ॥ * ङ्गना-गाना-ऽक्ष संल० मो० सङ्घ० ० ॥ १ तुर्यं चतुर्थ मनःपर्यायज्ञानम् ॥
For Private & Personal Use Only
त्रिमुखो यक्षः दुरितारिश्र
यक्षिणी
सम्भवजिनपरिवारादिकम्
www.jainelibrary.org