SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि शलाका पुरुषचरिते महाकाव्ये ॥२९९॥ Jain Education Intern `ध्यायन्ननित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुंड्यभङ्गेऽपि रोदिति ॥ ३७० ॥ शरीर-यौवन-धन-बान्धवादि न केवलम् । अनित्यं किन्तु भुवनमप्येतत् सचराचरम् ।। ३७१ ॥ इत्यनित्यं विदन् सर्वं शरीरी निष्परिग्रहः । नित्याय नित्यसौख्याय पदार्थ प्रयतेत तत् ॥ ३७२ ॥ श्रुत्वा तां देशनां भर्तुः पादपद्मान्तिके ततः । नरा नार्यश्च बहवो दीक्षामाददिरे तदा || ३७३ || तदा चारुप्रभृतीनां गणभृन्नामकर्मणाम् । स्वाम्युद्दिदेश त्रिपदीं स्थित्युत्पाद व्ययात्मिकाम् ॥ ३७४ ॥ द्वयं शतं गणधरास्ते त्रिपद्यनुसारतः । असूत्रयन् द्वादशाङ्गीं सचतुर्दशपूर्विकाम् ॥ ३७५ ॥ उत्थायाऽऽदाय शक्रोपनीतं चूर्ण क्षिपन् प्रभुः । अनुयोग- गणानुज्ञे तेषां द्रव्यादिभिर्ददौ || ३७६ || वासान् सुरादयस्तेषु ध्वनदुन्दुभि चिक्षिपुः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणभृतश्च ते ।। ३७७ ॥ दिव्यसिंहासनं भूयोऽप्यध्यास्य प्राङ्मुखः प्रभुः । अनुशिष्टिमयीं तेषां विदधे धर्मदेशनाम् || ३७८ ॥ पूर्णायामथ पौरुष्यां व्यस्राक्षीद् देशनां विभुः । शाल्याढकवली राजभवनादाजगाम च ॥ ३७९ ॥ क्षिप्तस्य तस्य खाद् भ्रश्यदधं देवैश्युतस्य तु । नृपैरथं जनैरधं विभज्य जगृहे मुदा ॥ ३८० ॥ अथोत्थायोत्तरद्वारा विनिर्गत्य जगद्गुरुः । देवच्छन्दे विशश्रामाऽश्रान्तोऽपि स्थितिरीदृशी ।। ३८१ ॥ स्वाम्यङ्घ्रिपीठमध्यास्य चारुर्गणधराग्रणीः । स्वामिप्रभावाद् विदधे देशनां संशयच्छिदम् ॥ ३८२ ।। द्वितीयस्यां स पौरुष्यां पूर्णायां देशनाविधेः । व्यरंसीत् कालवेलायामागमाध्ययनादिव ।। ३८३ ॥ १ कुड्यं भित्तिः ॥ २ अनुयोगः शास्त्रवाचना ॥ * खो विभुः सङ्घ० ॥ ढके ब° संवृ० ॥ † 'राद् वि० सं० ॥ ३ व्यरंसीद् विरराम ॥ For Private & Personal Use Only तृतीयं पर्व प्रथमः सर्गः सम्भवजिनचरितम् । ॥२९९ ॥ www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy