SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern I यद्यात्मानं विजानीयात् कृतान्ते वशवर्तिनम् । को ग्रासमपि गृह्णीयात् ? पापकर्मसु का कथा १ ॥ ३५७ ॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्बुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ३५८ ॥ आढ्यं निःस्वं नृपं रङ्कं ज्ञं मूर्ख सज्जनं खलम् । अविशेषेण संहर्तुं समेवर्ती प्रवर्तते ॥ ३५९ ॥ न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु वाऽस्ति न । दावाग्निवदरण्यांनीं विलुम्पत्यन्तको जनम् ॥ ३६० ॥ इदं तु मास्म शङ्कध्वं कुशास्त्रैरपि मोहिताः । कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ ३६१ ॥ ये मेरुदण्डसात् कर्तुं पृथ्वीं वा छत्रसात् क्षमाः । तेऽपि त्रातुं खमन्यं वा न मृत्योः प्रभविष्णवः ॥ ३६२ ॥ आ कीटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवश्चंनाम् ॥ ३६३ ॥ पूर्वेषां चेत् क्वचित कविजीवन् दृश्येत कैश्चन । न्यायपथातीतमपि स्यात् तदा कालवञ्चनम् ॥ ३६४ ॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बल-रूपापहारिण्या जरसा जॅर्जरीभवत् ॥ ३६५ ॥ कामिनीभि काम्यन्ते कामलीलया । निकामकृतधूत्कारं त्यज्यन्ते तेऽपि वार्द्धके ॥ ३६६ ॥ यदर्जितं बहुशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ ३६७ ॥ उपमानपदं किं स्यात् फेन- बुद्बुद - विद्युती? । धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ॥ ३६८ ॥ समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्जनैः । स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥ ३६९ ॥ १ बुद्बुदाः जलस्फोटाः, परपोटा इति प्रसिद्धम् ॥ २ समवर्त्ती - समं सर्वैः सह वर्त्तते इत्येवं शील: समवर्त्ती यमः यमराज इति यावत् || ३ विशालम् अरण्यम् अरण्यानी ॥ ञ्चनम् संबृ० मो० ॥ ४ जर्जरीभवत् वर्त्तमानकृदन्तम् । न जर्जरम् अजर्जरम्, अजर्जरं जर्जरं भवति इति जर्जरीभवत् ॥ ५ वृद्धस्य भावः वार्द्धकं वृद्धत्वमिति ॥ द्युताम् सं० सङ्घ० ॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy