________________
तृतीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
| प्रथम: | सर्गः सम्भवजिन
चरितम्। | अनित्यभावनागर्भिता सम्भवजिनदेशना
॥२९८॥
अचण्डवीरव्रतिना शमिना समवर्तिना। त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥ ३४४॥ अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कसैचिद् भवते नमः॥ ३४५॥ अनुक्षितफलोदग्रादनिपीतगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥ ३४६ ॥ असङ्गस्य जिनेशस्य निर्ममस्य कृपात्मनः। मध्यस्थस्य जगत्रातुरनस्तेऽस्मि किङ्करः ॥ ३४७॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्यचिन्तारत्ने च त्वय्यात्माऽयं मयार्पितः॥ ३४८ ॥ फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किङ्कर्तव्यजडे मयि ॥ ३४९॥
स्तुत्वैवं विरते शके विश्वस्योपचिकीर्षया । भगवान् सम्भवस्वामी विदधे देशनामिमाम् ॥३५०॥ अनित्यं सर्वमप्यस्मिन् संसारे वस्तु वस्तुतः । मुधा सुखलवेनापि तत्र मूर्छा शरीरिणाम् ॥ ३५१॥ खतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चाऽऽगच्छदापर्दः। कृतान्तदन्तयत्रस्थाः कष्टं जीवन्ति जन्तवः॥३५२॥ वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ? ॥ ३५३॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्ण-शीर्णलालोत्थे चश्चापुंसि करोतु सः॥ ३५४ ॥ न मन्त्र-तत्र-भैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ३५५ ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो! जन्म देहिनाम् ॥ ३५६ ॥
१ संसारवर्जिताय । २ रजोगुणरहिताय । ३ जलसेकवर्जितोऽपि फलैः सम्भृतः तस्मात् ॥ ४ पत्राद्यगलनाद् गुरुतमः तस्मात् ॥ ५त्रिशूलादिचिह्वरहितः। ६ आगच्छन्त्यः आपदः येषां ते आगच्छदापदो जन्तवः ॥ ७ रम्भा कदली, । सगर्भः समानः॥ ८पलाल: | बुसम्, 'भूसु' इति प्रसिद्धम् ॥ ९ चम्चा तृणमयः पुरुषः, स च क्षेत्रे धान्यादिरक्षणार्थ लोकः स्थाप्यते। 'चाडियो' इति प्रसिद्धम् ॥
२९८॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org