SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 54 CROCURROREOGROGROCEROSG चक्रे समवसृत्यग्रे धर्मचक्रं च भासुरं । व्यन्तरधर्मचक्रित्वसूचकं परमेशितुः ॥ ३३०॥ सुरैः सञ्चार्यमाणेषु सौवर्णेष्वम्बुजन्मसु । नवस्वारोपयन् पादौ सुरकोटीभिरावृतः॥ ३३१ ॥ प्रातः समवसरणं पूर्वद्वारा विशद् विभुः । त्रिः प्रदक्षिणयामास तत्र तं चैत्यपादपम् ॥३३२॥ नमस्तीर्थायेति जल्पंश्छन्दकान्तनिवेशितम् । सिंहासनमथाऽध्यास्त प्रामुखः परमेश्वरः ॥३३३ ॥ प्रभावात् स्वामिनः स्वामिप्रतिबिम्बानि चक्रिरे । रत्नसिंहासनस्थानि व्यन्तरा अन्यदिक्ष्वपि ॥ ३३४॥ शिरसः पश्चिमे भागेऽभवद् भामण्डलं प्रभोः । इन्द्रध्वजः पुरस्ताच्च दुन्दुभिश्चाऽध्वनद् दिवि ॥ ३३५॥ प्रविश्य प्रारद्वारार्हन्तं नत्वाऽऽग्नेय्यामुपाविशन् । साधवोऽथ वैमानिक्यः साध्व्यश्चोा वितष्ठिरे ॥३३६॥ अपारद्वारा प्रविश्याऽहत्पादान् नत्वा च नैर्ऋते । अतिष्ठन् भवनपति-ज्योतिष्क-व्यन्तरस्त्रियः ॥ ३३७ ।। प्रत्यरद्वारेण प्रविश्याऽर्हन्तं नत्वा मरुद्दिशि । तस्थुः क्रमाद् भवनेश-ज्योतिष्क-व्यन्तराः सुराः ॥३३८ ।। उदग्द्वारा प्रविश्याऽथ जिनं नत्वा क्रमेण तु । वैमानिका नरा नार्य ऐशान्यामवतस्थिरे ॥ ३३९ ॥ आद्यवग्रेऽवास्थितेवं श्रीमान् सङ्घश्चतुर्विधः । वप्रे द्वितीये तिर्यश्चस्तृतीये वाहनानि तु ॥ ३४० ॥ अथ शक्रो नमस्कृत्य स्वामिनं रचिताञ्जलिः । इति प्रचक्रमे स्तोतुं वाचा भक्तिसनाथया॥ ३४१॥ अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धिबाधवः ॥३४२ ॥ अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥ ३४३ ॥ १ सुवर्णमयेषु कमलेषु। २ पूर्वद्वारेण । * श्चोईमवस्थिताः संल. सङ्घ ॥ ३ दक्षिणद्वारेण । ४ वायव्यां दिशि । लाचि सङ्घ मो० ॥ ५ भक्तियुक्तया। °म्बन्धबा संबृ०॥ ६ अभ्यङ्गरहितमपि । ७ मार्जनरहितमपि । SISSEASESORASIL Jain Education intellial For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy