________________
त्रिषष्टि
शलाकापुरुषचरिते महाकाव्ये ॥२९७॥
तृतीयं पर्व प्रथमः
सर्गः सम्भवजिन
चरितम् ।
समवसरणरचना
ततश्च कार्तिके मासि पक्षे च धवलेतरे । पञ्चम्यां च तिथौ शीतरश्मौ मृगशिरःस्थिते ॥ ३१६॥ स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् । सद्-भावि-भूतवस्तूनां दर्शनप्रतिभूरिव ॥ ३१७ ॥ परमाधार्मिककृत-क्षेत्रजा-ऽन्योऽन्यजन्मनः । दुःखस्यान्तात् क्षणं सौख्यं तदा निरयिणामभूत् ॥३१८ ॥ सुरा-ऽसुरेन्द्राः सर्वेऽपि तदानीं चलितासनाः । केवलज्ञानमहिम कर्तुं तत्र समाययुः ॥ ३१९ ॥ __ततः समवसरणकृते क्ष्मामेकयोजनाम् । ममृजुर्वायुकुमाराः सिषिचुश्च पयोमुचः॥३२॥ बबन्धुर्व्यन्तरास्तां च स्वर्ण-रत्ना-ऽश्मभिः शुभैः । पञ्चवर्णानि पुष्पाणि विकिरन्ति स्म तत्र च ॥३२१॥ श्वेतच्छत्र-ध्वज-स्तम्भ-मकरास्यादिभूषितान् । प्रत्याशं चतुरस्तत्र तोरणांस्ते विचक्रिरे ॥ ३२२ ॥ रत्नपीठं विकृत्यान्तः परितस्तं विचक्रिरे । रौप्यं वनं भवनेशाः सौवर्णकपिशीर्षकम् ॥ ३२३ ॥ ज्योतिष्का मध्यम वर्ग सरत्नकपिशीर्षकम् । तोपनीयं विदधिरे भूवधूवलयोपमम् ॥ ३२४ ॥ अथ रत्नमयं वर्ग माणिक्यकपिशीर्षकम् । तत्रोपरितनं चक्रुर्विमानपतयोऽमराः॥३२५॥ बभूव प्रतिवनं च गोपुराणां चतुष्टयम् । द्वितीयवप्रे चैशान्यां देवच्छन्दं व्यधुः सुराः ॥३२६ ॥ ऊर्द्धवप्रान्तरावन्या मध्ये चैत्यतरं व्यधुः । साष्टधन्वशतकोशद्वयोचं व्यन्तरास्ततः ॥ ३२७॥ तस्याऽधो मणिभिर्बद्धे पीठे ते च्छन्दकं व्यधुः । तन्मध्ये प्राक् सांहिपीठं रत्नसिंहासनं ततः ॥३२८॥ छन्दकोपरि चक्रुश्च ते च्छत्रत्रितयं शुभम् । दधाते पार्श्वयोयक्षौ चामरे चेन्दुपाण्डुरे ॥ ३२९॥
१ कृष्ये । २ चन्द्रे । ३ केवलज्ञानम् । ४ साक्षिभूतः । ५ नारकाणाम् । ६ महिमानम् । ७ समवसरणार्थम् । ८ पृथ्वीम् ।। |९ स्तनितकुमारा इत्यर्थः । १० प्रतिदिशम् । ११ भवनपतिदेवाः । १२ सुवर्णमयम् ।
|॥२९७॥
Jain Education Intel®
For Private & Personal use only
www.jainelibrary.org.