SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ सम्भवजिनवार्षिकदानं दीक्षा च मानुषत्वमवाप्यापि मृढविषयसेवया । मुधा निर्गम्यते पादशौचेनेव सुधारसः॥२५१॥ इति चिन्तयतो भर्तुरेयुलॊकान्तिकामराः । नत्वा व्यज्ञपयंश्चैव स्वामिस्तीर्थ प्रवर्त्तय ॥ २५२ ॥ गतेषु तेषु देवेषु दीक्षादानोत्सवोत्सुकः । सांवत्सरिकमारेमे दानं दातुं जगत्पतिः॥२५३ ॥ देवाश्च जृम्भकाः शक्रादिष्टवैश्रवणेरिताः । क्षीणस्वामीनि निर्नष्टसेतून्यद्रिगतानि च ॥ २५४ ॥ श्मशानस्थानवर्तीनि निगूढानि गृहान्तरे । चिरभ्रष्टानि नष्टानि स्वर्णादीनि धनान्यथ ॥ २५५॥ आनीय पुयां श्रावस्त्यां चत्वरेषु त्रिकेषु च । अन्येष्वपि प्रदेशेषु राशींश्चक्रुगिरीन्द्रवत् ॥ २५६ ॥ यो येनार्थी स तद् द्रव्यं खैरमर्थयतामिति । आयुक्तैर्घोषणामुच्चैः श्रावस्त्यां खाम्यकारयत् ॥२५७॥ स्वामी कोटिं साष्टलक्षां हाटकस्याऽन्वहं ददौ । अर्थिनस्तावतोऽर्थस्य भवन्ति ददतोऽर्हतः॥२५८॥ कोटीशतत्रयं स्वर्णस्याऽष्टाशीतिश्च कोटयः। लक्षाशीतिश्च ददिरे स्वामिना वत्सरेण तु ॥ २५९ ॥ सांवत्सरिकदानान्ते वासवाश्चलितासनाः । सान्तःपुरपरीवाराः खामिवेश्म समाययुः ॥२६॥ ततः प्रदक्षिणीकृत्य स्वामिवेश्म विमानतः । अवतेरुश्चास्पृशन्तः पृथिवीं चतुरङ्गुलम् ॥ २६१॥ द्युसनाथा जगन्नाथमथो विनयशालिनः । सर्वे प्रदक्षिणीचक्रुर्नमश्चक्रुश्च भक्तितः॥ २६२॥ जन्माभिषेकवद् भर्तुरभिषेकमथाऽच्युतः । आभियोग्या१तैस्तीर्थाम्भस्कुम्भैर्विधिवद् व्यधात् ॥ २६३ ॥ क्रमेण तद्वदन्येऽपि विदधुर्विबुधाधिपाः । दीक्षाकल्याणकस्नानं भक्तिकल्या जगत्पतेः॥२६४॥ सुरा-ऽसुरेन्द्रवद् भक्त्या नरेन्द्रा अपि तत्क्षणम् । सम्भवस्वामिनश्चक्रुः पवित्रैः स्त्रात्रमम्बुभिः॥२६५॥ १ वार्षिकम् । २ चतुष्पथेषु । ३ मार्गत्रयसंयोगेषु । ४ सेवकजनैः । ५ सुवर्णस्य । व इन्द्राः। नीतैः। ८ भक्तिचतुराः। Jain Education internet For Private & Personal Use Only Xnow.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy