SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीय पर्व प्रथमः सर्गः सम्भवजिन |चरितम्। ॥२९४॥ सुधाकुण्डसदृक्षासु कदाचित् केलिवापिषु । कदाचिचित्रशालासु द्युविमानसनामिषु ॥ २३९ ॥ वैदग्ध्यरमणीयाभी रमणीभिः सहस्रशः। रेमे श्रीसम्भवस्वामी करिणीभिरिव द्विपः॥२४॥ ॥त्रिभिर्विशेषकम् ॥ भुञ्जानो विविधान् भोगान् कौमारे परमेश्वरः । गमयामास पूर्वाणां लक्षाणि दश पश्च च ॥२४१॥ राजाऽथ भवनिर्विण्णः सम्भवस्वामिनं तदा । उपरुध्य न्यधात् राज्येऽङ्गुलीये वररसवत् ॥ २४२॥ सद्गुरोः पादपद्मान्ते जितारिनृपतिः स्वयम् । उपादाय परिव्रज्यां निजमर्थमसाधयत् ॥ २४३ ॥ तातोपरोधादादाय राज्यं प्राज्यपराक्रमः । ररक्ष सम्भवखामी पृथिवीं पुष्पदामवत् ॥ २४४॥ निरीतयो निरोतङ्काः पुरुषायुषजीविताः । सम्भवस्वामिनो राज्ये प्रभावादभवन् प्रजाः॥२४५॥ न कस्याप्युपरि स्वामी ध्रुवमप्यध्यरोपयत् । चापारोपणवा या अवकाशोऽपि कीदृशः ॥२४६॥ भोग्यं कर्म क्षिपन् राज्ये सर्वाङ्गचतुष्टयम् । चतुश्चत्वारिंशत्पूर्वलक्षी खाम्यत्यवाहयत् ॥ २४७॥ __ज्ञानत्रयपरीतात्मा स्वयम्बुद्धो जगत्प्रभुः । तदा च चिन्तयामास संसारस्थितिमीरशीम् ॥ २४८॥ संसारे विषयास्वादसुखं सविषभोज्यवत् । आपातमात्रमधुरं परिणामे त्वनर्थदम् ॥ २४९॥ अस्मिन्नसारे संसारे कथश्चिद्धि शरीरिभिः। अवाप्यते मानुषत्वमुपरे खादुवारिवत ॥ २५०॥ . देवविमानसदृशासु। २ चातुर्यम् रमणीया-1 ३ पदपंचाशत्सहस्राधिकसप्ततिलक्षकोटिवर्षात्मकः कालविशेषः पूर्वम् । ४ मुद्रिकायाम् । ५ अङ्गीकृत्य । ६ पितुराग्रहात् । ७ अतिग्रौढपराक्रमवान् । ८ अतिवृष्टि-अनावृष्टि प्रमुख-ईतिरहिताः।९रोगरहिताः। १. चतुरशीतिलक्षवर्षपरिमितं पूर्वाङ्गम् । ११ युक्तारमा । १२ भारम्भ एव मधुरम् । १३ क्षारभूमौ । M॥२९४॥ Jain Education in For Private & Personal use only I www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy