SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ एवं विचित्रक्रीडाभिश्चित्रः क्रीडनकैश्च सः। शैशवं व्यतिचक्राम प्रदोषमिव चन्द्रमाः ॥ २२६ ॥ ___ चतुर्धन्वशतोत्तुङ्गः स्वर्णवर्णो जगद्गुरुः । बभासे कौतुकान्मेरुरिव पुंस्त्वमुपागतः ॥२२७ ।। छत्रवृत्तोन्नतोष्णीषः स्निग्ध-श्यामलकुन्तलः। अष्टमीन्दुललाटश्रीः कर्णविश्रान्तलोचनः ॥ २२८॥ स्कन्धावलम्बिश्रवणो वृषस्कन्धो महाभुजः । विशालभुजमध्यश्च सिंहोदरकृशोदरः ॥ २२९ ॥ करीन्द्रकरकल्पोरुरेणीजङ्घोऽल्पगुल्फकैः । कूर्मपृष्ठोन्नत-समतलांहिः सरलाङ्गुलिः ॥ २३०॥ असम्पृक्तोद्गतश्याम-मृदुल-स्निग्धरोमकः । पामोदिमुखश्वासः सदा मालिन्यवर्जितः ॥ २३१ ॥ एवं निसर्गसर्वाङ्गसुभगोऽपि जगत्पतिः। पार्वणः शरदेवेन्दुयॊवनेनाधिकं बभौ ॥ २३२॥ पितृभ्यामुत्सवातृप्त्याऽपरेधुः प्रार्थितः प्रभुः । परिणेतुं नृपकन्याः सुरकन्यासहोदराः ॥ २३३ ॥ जानन् भोगफलं कर्म पित्रोराज्ञां च पालयन् । कन्यानामुपैयमनं सोऽनुमेने महामनाः ॥ २३४॥ राज्ञा जितारिणा साक्षाच्छक्रेण च समेयुषा । हाहा-हूहूप्रभृतिषु गायत्सु मधुरस्वरम् ॥ २३५ ।। गन्धर्वेषु मृदङ्गादि गम्भीरं वादयत्सु च । रम्भा-तिलोत्तमाद्यासु नृत्यन्तीष्वप्सरम्सु च ॥ २३६ ॥ धवेलानुद्द्वणन्तीषु कुलनारीषु चोच्चकैः । कारितः सम्भवस्वामी कन्योद्वाहमहोत्सवम् ।। २३७ ॥ ॥ त्रिमिर्विशेषकम् ।। नन्दनोद्यानकल्पासु कदाप्युद्यानवीथिषु । रत्नाद्रिशृङ्गतुल्येषु क्रीडाद्रिषु कदापि च ॥ २३८॥ ५ उन्नतमस्तकशिखः । २ दीर्घलोचन इत्यर्थः। ३ अल्पौ गुल्फी घुटिके यस्य । ४ स्वभावसर्वाङ्ग-1 ५ पूर्णिमा चन्द्रो यथा शरहतुना तथा । *तृभ्यां परया प्रीत्याऽपरे संवृ०॥ ६ समाना इत्यर्थः । ७ विवाहम् । ८ समागतेन । ९ भाषायां 'धोळ' । १० गायन्तीषु । ११ उद्यानराजिषु । Jain Education Inter For Private & Personal use only Lolliwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy