SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥२९३॥ सर्वाणि धात्रीकर्माणि सदा कारयितुं विभोः। समादिदेशाऽप्सरसः पञ्च धात्री सुरेश्वरः ॥ २१२॥ । एवमासूत्र्य सूत्रामा नत्वार्हन्तं ततो ययौ । मेरुतः पुनरन्येन्द्राः द्वीपं नन्दीश्वराभिधम् ।। २१३॥ प्रथमः शाश्वताहत्प्रतिमानां तत्र चाऽष्टाह्निकोत्सवम । कृत्वा निजनिजस्थानं ययुः सर्वे सुरा-ऽसुराः॥ २१४।। सर्गः प्रातर्जितारिणा राज्ञा पुत्रभूयमुपेयुषः । अर्हतो जगदहस्य चक्रे जन्मोत्सवो महान् ॥ २१५॥ दिसम्भवजिनगृहे गृहे पथि पथि विपणौ विपणावपि । पुर्या तत्रोत्सवो जज्ञे सर्वस्यां राजवेश्मवत् ।। २१६ ॥ चरितम् । यद्गर्भस्थेऽत्र सम्भृतं धान्यं शं चाऽभवत्ततः। सम्भवः शम्भवश्चेति पिता नाम विभोर्व्यधात् ॥२१७॥ मुहुर्मुहुरुदैक्षिबालरूपं जगत्पतिम् । सुधामग्नमिवाऽऽत्मानं मन्यमानो महीपतिः ॥ २१८ ॥ भूपतिधोरयामासोत्सङ्गे हृदि शिरस्यपि । प्रकृष्टमिव माणिक्यं प्रभुं तत्स्पर्शलालसः ॥ २१९ ॥ धात्र्यः शक्रकृताः पञ्च ताः प्रेपञ्चितभक्तयः । कदापि देहच्छायावत् पार्श्व न मुमुचुः प्रभोः॥२२०॥ स धात्रीं खेदयामासाङ्कादुत्तीर्य परिभ्रमन् । अपेतसाधसः सिंहीमिव सिंहकिशोरकः ॥ २२१ ॥ रत्नाईमभूमिसान्ते चन्द्रे स ज्ञानवानपि । करं चिक्षेप लोकस्य दर्शयन् बालचापलम् ॥ २२२ ॥ आगतैः सवयोर्भूय मर्त्यरूपधरैः सुरैः । सहाऽक्रीडत् प्रभुः कोऽन्यस्तत्क्रीडायामपि क्षमः ॥ २२३ ॥ क्रीडया धावतो भर्तुर्वलद्धीवा दिवौकसः । प्रतिकारी इवेभस्य धावन्ति स्म पुरः पुरः ॥ २२४ ॥ ॥२९३॥ लीलया पातितेष्वेषु रक्ष रक्षेति वादिषु । तदापि विदधे स्वामी परिणामोचितां कृपाम् ॥ २२५॥ __ *णि कर्माणि सदा तदा कार०° संवृ. ॥ १ इन्द्रः। २ पुत्ररूपता प्राप्तस्य । ३ सुखम् । ४ दृष्टवान् । ५ विस्तारित| भक्तयः । ६ अपगतभयः । ७ रनोपलनिबद्धभूमिप्रतिबिम्बिते। ८ मित्राणि भूत्वा। ९ भटः । प्रकृष्टमिव माणिक्यना महापतिः ॥२१८ कृताः पञ्च ताः COLOROADCASTU Jan Education in For Private & Personal use only A wew.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy