________________
SECRESSGE
नमो भगवते तुभ्यं विश्वनाथाय तायिने । तृतीयतीर्थनाथाय सनाथाय महर्द्धिभिः॥१९८॥ ज्ञानस्त्रिभिश्चतुर्भिश्चातिशयैः सहजन्मभिः । जगद्विलक्षणोऽस्पष्टसहस्रस्फुटलक्षणः ॥ १९९॥ सदैव हि प्रमत्तानां प्रमादच्छेदकारणम् । इदं त्वजन्मकल्याणं कल्याणायाऽद्य मादृशाम् ॥२०॥ सकलापि श्लाघनीया यामिनीयं जगत्पते! । अकलङ्कतनुर्यस्यामुदगास्त्वं सुधाकरः ॥२०१॥ अमर्त्यलोकवन्मर्त्यलोकोऽप्यस्त्वधुना प्रभो।। देवैस्त्वद्वन्दनाहेतोरेहिरेाहिरापरैः॥ २०२॥ देव! त्वद्दर्शनसुधास्वादसन्तुष्टचेतसाम् । पर्याप्तं जीणेसुधयाऽतः परेण सुधान्धसाम् ॥ २०३ ॥ भगवन! भरतक्षेत्रसरोवरसरोरुह! । भृयान्मधुव्रतस्येव त्वयि मे परमो लयः॥२०४॥ मानवा अपि ते धन्या ये त्वां पश्यन्ति नित्यशः । त्वद्दर्शनोत्सवोऽधीश! स्वाराज्यादतिरिच्यते ॥२०५॥ ___ स्तुत्वैवं पञ्चधा भूत्वेशानात् खामिनमाददे । मूत्यैकया पराभिश्च प्राग्वत् कर्माणि सोऽकरोत् ॥२०६॥ सेनादेव्याः क्षणात पार्श्वे वस्त्रा-ऽलङ्कारभूषितम् । मुमोच प्रभुमुल्लोचेऽबध्नाच्छ्रीदामगण्डकम् ॥२०७॥ कुण्डले च दुकूले च प्रभोरुच्छीर्षकेऽमुचत् । तामपखापनीमहत्प्रतिविम्बं च सोऽहरत् ॥ २०८॥ अथाऽऽभियोगिकान् देवान् दिवस्पतिरघोषयत् । कल्पवासिषु देवेषु भवनाधिपतिष्वपि ॥२०९॥ व्यन्तरेषु ज्योतिष्केषु प्रभोर्देव्याश्च योऽशुभम् । चिन्तयिष्यति तन्मूर्धा सप्तधैव स्फुटिष्यति ॥२१०॥युग्मम् सोऽथ सङ्कमयामासाङ्गुष्ठे भर्तुः सुधारसम् । अर्हन्तोऽस्तन्यपा यमात् क्षुधि स्वाङ्गुष्ठपायिनः॥ २११॥
रक्षणकā । २ युक्ताय । ३ स्वर्गलोकवत् । 'रे आगच्छ रे गच्छ' इत्यादिभाषणतत्परैः । ५ देवानाम् । * °धुकरस्ये संवृ०॥ ६ भ्रमरस्येव । ७ स्वर्गसाम्रा ज्यात् । ८ अन्याभिः मूर्तिभिः । ९विताने। १० पुष्पदामगुच्छकम् । "उपधाने, भाषायाम् 'ओशीकुं'। १२ इन्द्रः । १३ तन्मस्तकम् । १४ न मातुः स्तन्यपायिनः ।
Jan Education inte
For Private & Personal use only
www.jainelibrary.org