________________
चतुष्पष्टिः इन्द्राः
RECENCESCREENSECONDSex
सुरैजयजयारावकारिभिः परिवारितः । गृहीत्वा स्वामिनं शक्रः क्षणान्मेरुशिरो ययौ ॥१७॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासने निषसाद कृत्वोत्सङ्गे जगद्गुरुम् ॥ १७१ ॥
तदैवाऽऽसनकम्पेनाऽवधिज्ञानमनाहतम् । प्रयुज्य तत्क्षणादेवाऽच्युतेन्द्रः प्राणतोऽपि च ॥ १७२॥ सहस्रारो महाशुक्रो लान्तको ब्रह्मवासवः। माहेन्द्रःसनत्कुमार ईशानश्चमैरो बलिः॥१७३॥ धरणो भूतानन्दश्च हरिहरिसहस्तथा । वेणुदेवो वेणुदारी चाऽग्निशिखोऽग्निमाणवः ॥ १७४॥४ वेलम्बःप्रभानश्च सुघोषाभिध एव च । महाघोषो जलंकान्ताभिधानोऽथ जलप्रभः॥१७५॥ अथ पूर्णीऽवशिष्टश्चामितोऽथामितवाहनः। तथा काल-महाकालौ सुरूप-प्रतिरूपंकौ ॥१७६॥ पूर्णभद्रस्तथा माणिभद्रो भीमाभिधोऽपि च । महाभीमः किन्नरश्च तथा किम्पुरुषाभिधः ॥१७७॥ सत्पुरुषाभिधानश्च महापुरुष एव च । अतिकाय-महाकायावपि गीतरतिस्तथा ॥ १७८ ॥ तथा गीतयशोनामा सन्निहितः समानकः।तथा धातृ-विधातारावृषिश्च ऋषिपालकः॥१७९॥ ईश्वरो महेश्वरश्च सुवैत्सक-विशालकौ । हास-हासरती श्वेतो महाश्वेतस्तथैव च ॥१८॥ पर्वक-पवकपती सूर्याचन्द्रमसावपि । इन्द्रास्त्रिषष्टिरेतेऽपि सर्वा सपरिच्छदाः॥१८१॥ जिनजन्माभिषेकाय मेरुपर्वतमूर्धनि । त्वरमाणाः समाजग्मुः प्रतिवेश्मस्थिता इव ॥ १८२ ॥
॥एकादशभिः कुलकम् ॥ अच्युतेन्द्राज्ञया कुम्भांत्रिदशा आभियोगिकाः । हैमान रूप्यमयान् रात्नान् हेमरूप्यमयानपि ॥१८३॥
१ अप्रतिहतम् । * सहाऽऽज संवृ० संल. मो० ॥ २ भाषायां 'पडोश । सङ्घ पुस्तकं विनाऽन्यन्न नास्ति ॥ nal
Jain Educati
o
For Private & Personal use only
www.jainelibrary.org.