SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते तृतीयं पर्व प्रथमः सर्गः सम्भवजिनचरितम् । महाकाव्ये ॥२९॥ उदगम्भाचतुःशाले जिनं तज्जननीं च ताः । नीत्वोपवेशयामासू रत्नसिंहासनोपरि ॥१५६ ॥ अथाऽभियोग्यैरानाय्य भूरि गोशीर्षचन्दनम् । समिन्धीकृत्य जुहुवुर्वतावरणिनिर्मिते ॥ १५७॥ स्वामिनः खामिमातुश्च रक्षापोट्टैलिकामथ । तदहिभसना कृत्वा बबन्धुस्ता यथाविधि ॥ १५८॥ पर्वतायुभवेत्युच्चैरुचारितगिरोऽथ ताः। कर्णाभ्यणे भगवतो ग्रावगोलावताडयन् ।। १५९ ॥ शय्याजुपं सूतिगृहेऽर्हन्तं तन्मातरं च ताः । कृत्वाऽवतस्थिरे तारं गायन्त्यो मङ्गलान्यथ ॥१६॥ खामिपादाम्बुजाभ्यणे यियासूनीव सर्वतः । तदा च पुरुहूतानामासनानि चकम्पिरे ॥ १६१ ॥ जिनजन्मावधेत्विोत्थाय शक्रोऽपंपादुकः । दत्त्वा पदानि सप्ताऽष्टान्यवन्दत जिनेश्वरम् ॥ १६२॥ घण्टानिर्घोषसेनानीघोषणामिलितैः सुरैः । परिवत्रे सुरेन्द्रोऽथ जिनजन्मोत्सवोत्सुकैः॥ १६३ ॥ आरुह्य पालकं शक्रः सामरः सपरिच्छेदः । मध्येनन्दीश्वरं गत्वा खामिवेश्माऽऽययौ ततः॥१६४॥ स प्रदक्षिणयामास स्वामिवेश्म विमानगः । मुक्त्वा विमानं चैशान्यां ततो हरिरवातरत् ॥ १६५॥ अथ तत् स्वामिनो वेश्म प्रविवेश पुरन्दरः। तमालोकनमात्रेऽपि प्रणनाम च भक्तितः॥१६६॥ स त्रिः प्रदक्षिणीचके भगवन्तं समातरम् । पञ्चाङ्गस्पृष्टभूपीठो भूयोऽपि प्रणनाम च ॥१६७॥ अपस्खापनिकां दत्त्वा देव्याः पार्थे निधाय च । प्रतिच्छन्दं विभोः शक्रः पञ्चमूर्तिरभृत् स्वयम् ॥१६८॥ तत्र चैको दधौ नाथं शक्रश्छत्रमथाऽपरः । चामरे द्वावथैकोऽगाद् वज्रमुल्लालयन् पुरः ॥ १६९ ॥ उत्तरदिकस्थिते कदलीगृहे । २ सेवकदेवैः । ३ ज्वालयित्वा । ४ भाषायां 'रक्षापोटली'५ पाषाणगोलको । ६ उच्चैःस्वरम् । ७ इन्द्राणाम् । ८ पादुकारहितः। ९ एतनामकं विमानम् । १० देवैः सहितः। ११ सपरिवारः । १२ जानुयुगं करयुगं उत्तमाझं | चेति पञ्चाङ्गम् । १३ प्रतिबिम्बम् । चतुष्षष्टीन्द्रविहितः सम्भवजिनजन्मोरसवः ॥२९॥ Jain Education Intel For Private & Personal use only | www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy