________________
अथोर्द्धलोकतो मेघङ्कराद्या दिक्कुमारिकाः । अष्टैयुस्तद्वदानेमुः स्वामिनं स्वामिमातरम् ॥ १४१॥ विकृत्याऽभ्राणि तद्वेश्मपार्श्वतो योजनावधि । रजांसि शमयामासुस्ता गन्धोदकवृष्टिभिः॥१४२॥ जानुदनीं पञ्चवर्णपुष्पवृष्टिं विधाय ताः । नत्वा जिनं जिनगुणान् गायन्त्योऽस्थुर्यथोचितम् ॥१४३॥ दिक्कुमार्यः प्राग्रुचकादष्ट नन्दोत्तरादयः । एत्य नत्वा तथैवाऽस्थुर्गायन्त्यो धृतदर्पणाः॥१४४ ॥ दिकुमार्योऽपाग्रुचकात् समहारादयोऽष्ट च । एत्य नत्वा दक्षिणेऽस्थुः सभृङ्गाराग्रपाणयः॥१४५॥ प्रत्यग्रुचकतोऽष्टैयुर्दिक्कुमार्य इलादयः। नत्वाऽस्थुर्व्यजनभृतो गायन्त्यः पश्चिमेन तु ॥१४६॥ अष्टोदग्रुचकादेयुर्देव्यश्चाऽलम्बुसादयः। नत्वा चोत्तरतस्तस्थुर्गायन्त्यो धृतचामराः॥१४७॥ एयुश्चतस्रश्चित्राद्या विदिग्रुचकतोऽप्यथ । नत्वा विदिक्षु तस्थुश्च गायन्त्यो दीपपाणयः॥१४८॥ एयुश्चतस्रो रूपाद्या देव्यो रुचकमध्यतः । चतुरङ्गलवर्ज ता नालं निचकृतः प्रभोः॥१४९॥ ताः कृत्वा विदरं भूमौ न्यधुर्नालं निधानवत् । वढ रत्नैश्च सम्पूर्य दुर्वया पीठिका व्यधुः ॥१५॥ प्रत्यग्वज प्रतिदिशं जिनजन्मगृहस्य ताः। विचक्रुः कदलिगृहं चतुःशालसमन्वितम् ॥१५१॥ पाणिभ्यां जिनमादाय जिनाम्बां दत्तवाहवः । अपारम्भाचतुःशाले नीत्वा सिंहासने व्यधुः ॥१५२ ॥ उभावभ्यज्य तैलेन लक्षपाकेण तास्ततः । सुगन्धिनोद्वर्तनेनोद्वर्तयामासुराशुं च ॥ १५३॥ नीत्वोभौ प्राक्चतुःशाले न्यस्य सिंहासने च ताः । गन्धोदकैरनपयन् देवदृष्येण चाऽमृजन् ॥१५४॥ गोशीर्षेण व्यलिम्पंश्च देवदूष्यांशुकान्यथ । भूषणानि च दिव्यानि ता द्वाभ्यां पर्यधापयन् ॥ १५५॥ १ जानुप्रमाणाम् । २ तालवृन्तधराः। ३ चिच्छिदुः । ४ गतम् । ५ स्थापयामासुः । ६ दक्षिणकदलिगृहे । शीघ्रम् ।
Jan Education interna
For Private & Personal use only
MHew.jainelibrary.org.