________________
चतुर्दश स्वमान
फाल्गुनस्य सिताष्टम्यां चन्द्रे मृगशिरस्थिते । आनतात् स परिच्युत्य सेनाकुक्षाववातरत ॥ ११३॥ क्षणं सुखं तदा जज्ञे नारकप्राणिनामपि । लोकत्रयेऽपि चोयोतो विद्युद्योतसोदरः ॥११४ ॥ शयानया रात्रिशेषे प्रविशन्तो मुखाम्बुजे । सेनादेव्या ददृशिरे महाखमाश्चतुर्दश ॥ ११५॥ गजन गजपतिौरः शरन्मेष इवोच्चकैः । वृषः स्फटिकशैलस्य गण्डशैल इवाऽमलः॥ ११६॥ केसरी केसरभरेणातिकुङ्कमकेसरः । क्रियमाणाभिषेका च करिभ्यां कमलालया ॥ ११७॥ पञ्चवर्णप्रसूनस्रक सन्ध्याभ्रच्छवितस्करा । राजतो दर्पण इव सम्पूर्णो रजनीकरः॥ ११८॥ विसूत्रितान्धकारं च चण्डदीधितिमण्डलम् । प्रक्वणत्किङ्किणीजालपताकश्च महाध्वजः॥११९ ॥ तापनीयः पयस्कुम्भः पयोजपिहिताननः । विकासिभिः सयमानमिव पबैर्महासरः॥ १२०॥ उद्वीचिहस्तकैर्नृत्यन्निव क्षीरमहोदधिः । अदृष्टप्रतिमानं च विमानं रत्ननिर्मितम् ॥ १२१॥ रत्नपुञ्जो मणिगणः पातालफणिनामिव । विभावसुश्च निधूमः प्रत्यूषतपनोपमः ॥ १२२ ॥ देवी प्रबुद्धा तान् खमान् नृपायाख्यन्नृपोऽपि च । व्याख्यात् त्रैलोक्यवन्यस्ते नूनं सूनुभविष्यति॥१२३॥
इन्द्राश्चासनकम्पेन विज्ञायोपेत्य तत्र च । सेनादेवीं नमस्कृत्य स्वमार्थ व्याचचक्षिरे ॥१२४ ॥ एतस्यामवसर्पिण्यां तृतीयस्तीर्थनायकः । भविष्यति जगत्स्वामी तव स्वामिनि! नन्दनः॥१२५॥ तेन स्वमविचारेण स्तनितेनेव केकिनी । मुदिता तं निशाशेष देव्यनैषीत् प्रजाग्रती ॥१२६ ॥
गिरेब्युतः स्थूलोपलः। २ लक्ष्मीः। ३ पुष्पमाला। ४ सन्ध्यासमयाभ्रकान्तिलुण्टाका । ५ चन्द्रः। ६ कृतान्धकारम् । सर्यमण्डलम्। ८सौवर्णः । * °नीयप संवृ• संल०॥९अग्निः। १०प्रातःकालीनसूर्यसमानः । ११तमानि कालविशेषे । १२मयूरी।
RANGRECORRORCRACCASI-
त्रिषष्टि. ५० Jain Education Intel
For Private & Personal use only
INI www.jainelibrary.org