SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥२८९ ॥ Jain Education Intern तस्य चाssचार्यवर्यस्य समीपे स नृपाग्रणीः । प्रात्राजीत् सर्वसावद्य प्रत्याख्यानपुरःसरम् ॥ ९८ ॥ साम्राज्यवत् परिव्रज्यामन्तरङ्गद्विपञ्जयात् । स संयमरथारूढो विधिवत् पर्यपालयत् ॥ ९९ ॥ विंशतेः स्थानकानां च स्थानकैरपरैरपि । स पुपोष निजं कर्म तीर्थकुन्नामनामकम् ॥ १०० ॥ उपसर्गैरनुद्विग्नो मोदमानः परीषहैः । स आयुः क्षपयामास स्वयाममिव यामिकः ॥ १०१ ॥ विहितानशनो मृत्वा कल्पं स प्रापदानतम् । निर्वाणफलदायिन्या दीक्षायाः स्तोकमीदृशम् ॥ १०२ ॥ इंतच जम्बूद्वीपेऽपग्भरतार्थस्य भूषणम् | श्रावस्तीत्यस्ति विस्तीर्णा नगरी श्रीगरीयसी ॥ १०३ ॥ भूव तस्यामिक्ष्वाकु कुलक्षीरोदचन्द्रमाः । जितारिरित्यरिजयाद् यथार्थाख्यः क्षमापतिः ॥ १०४ ॥ मृगेव मृगेन्द्रस्य पक्षीन्द्रस्येव पक्षिषु । न समो नाऽधिको वाऽपि तस्याऽभूत् कोऽपि राजसु ॥ १०५ ॥ स रेजे राजभी राजा पत्तीकृत्य प्रवेशितैः । ग्रहैरिव ग्रहपतिमण्डलान्तः प्रवेशिभिः ।। १०६ ।। नार्म्यं किञ्चिदप्यूचे नाऽचचार च तादृशम् । नाऽचिन्तयच्च तादृक्षं स धर्म इव मूर्त्तिमान् ॥ १०७ ॥ विनेतरि दुराचारानर्थिभ्योऽर्थांश्च दातरि । अधार्मिको दुःस्थितो वा तस्मिन् राज्ञि न कोऽप्यभूत् ॥ १०८ ॥ सोऽत्रपाणिः कृपालु शक्तिमांश्च क्षमापरः । विद्वांश्च गतमात्सर्यो युवा चाऽऽसीजितेन्द्रियः ॥ १०९ ॥ भूव महिषी तस्यानुरूपा रूपसम्पदा । सेनानीर्गुणसैन्यानां सेनादेवीति नामतः ॥ ११० ॥ अबाधमान इतरान् पुरुषार्थान् यथाक्षणम् । अरंस्त स तया देव्या रोहिण्येव हिमद्युतिः ॥ १११ ॥ इतश्च नवमे कल्पे खमायुः पर्यपूरयत् । जीवस्तदानीं विपुलवाहनस्य महीपतेः ॥ ११२ ॥ 'लभूताया दी° संवृ० मो० ॥ १ दक्षिणभरतार्धस्य । २ चन्द्रः । ३ धर्मादनपेतं धर्म्यम् न तथा । ४ चन्द्रः । For Private & Personal Use Only * तृतीयं पर्व प्रथमः सर्गः सम्भव जिनचरितम् । सम्भवजिनस्य गर्भावतरणम् ॥२८९ ॥ www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy