SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ CHOREOGROCCALCALCCASSECRECTEDGE इति निश्चित्य रभसादाजूहवदिलापतिः। द्वारपालेन विमलकीत कीर्तिप्रियं सुतम् ॥ ८४॥ प्रकृष्टदैवतस्येव भक्त्या परमया पितुः। पादो नत्वा कुमारः स बद्धाञ्जलिरदोऽवदत् ॥ ८५॥ महताऽपि निदेशेन प्रसीदाऽनुगृहाण माम् । पुत्रभाण्डमसौ बाल इति शङ्कां च मा कृथाः॥८६॥ प्रत्यर्थिनः पार्थिवस्य कस्याऽऽच्छिन्देऽद्य मेदिनीम् ? । सपर्वतं पर्वतीयं नृपं कं साधयामि चैं? ॥ ८७ ॥ सजलं जलदुर्गस्थमन्तयामि रिपुं च कम्? । यो वः शल्यायतेऽन्योऽपि तमप्याशूत्खनाम्यहम् ॥८८॥ बालोऽपि तव पुत्रोऽस्मि, क्षमो दुःसाधसाधने । तातस्यैव प्रभावोऽयं न भटम्मन्यताऽत्र मे ॥ ८९॥ राजाऽपि व्याजहारैवं प्रत्यर्थी पार्थिवो न मे । पर्वतीयो न वा कोऽपि व्यतिक्रामति मद्वचः ॥९॥ न च द्वीपाधिपः कोऽपि ममाज्ञां व्यतिलङ्घते । यत्साधनाय वत्स! त्वां प्रहिणोमि महाभुजः॥९१॥ एकः शल्यायते किन्तु भंववासो ममाऽनिशम् । तदुद्धर कुलोत्तंस! धराभारं धुरन्धर! ।। ९२ ॥ मयेव गृह्यतामेतत् त्वया राज्यं क्रमागतम् । आत्तदीक्षो यथाऽभीक्ष्णं भववासं त्यजाम्यहम् ॥ ९३ ॥ । अलङ्घनीयां गुर्वाज्ञां स्वसन्धों चाऽधुना कृताम् । संस्मरन् वत्स! भक्त्यापि नाऽन्यथा कर्तुमर्हसि ॥९४॥ दध्याविति कुमारोऽपि तातेनाऽऽज्ञां प्रयच्छता। मत्सन्धां स्मारयता चहा कृतोऽस्मि निरुत्तरः॥९५॥ इत्यादि चिन्तयन् राजपुत्रो राज्ञा स्वपाणिना । आदाय राज्ये निदधे साभिषेकमहोत्सवम् ॥ ९६॥ राजाऽपि कृतदीक्षाभिषेको विमलकीर्तिना । शिबिकाधिरूढश्चाऽगात् सूरिं नाम्ना खयम्प्रभम् ॥९७॥ १ राजा। २ शत्रोः। ३ गिरिवासिनम् । *वा संवृ० संल० सङ्घ० ॥ ४ नाशयामि । ५ शल्यवदाचरति । ६ उवाच । हा उल्लचते । ८ गृहवास इत्यर्थः । ९ गृहीतदीक्षः। १० प्रतिज्ञाम् । Jan Education Inter For Private & Personal use only T ww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy