SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते तृतीयं पर्व प्रथमः सर्गः सम्भवजिनचरितम् । महाकाव्ये ॥२८७॥ दुग्धानि क्वार्थसिद्धानि मार्जित क्षुत्प्रमार्जनी । राजभोजनवत तंत्राऽभवन् श्रावकभोजने ॥४५॥ पञ्चभिः कुलकम् ।। एपणीय-कल्पनीय-प्रासुकानि पुनः स्वयम् । महामुनीनां स ददौ महाराजो महामनाः ॥४६॥ दुर्भिक्षकालं सकलमेवं स वसुधाधवः । ददौ सकलसङ्घाय भोजनादि यथाविधि ॥४७॥ वैयावृत्यं समाधिं च सर्वसङ्घस्य कुर्वता । अर्जितं तीर्थकृन्नाम कर्म तेन महीभुजा ॥४८॥ ___ निषण्णश्चन्द्रशालान्तरपरेयुः स उद्युतम् । नभस्यपश्यदम्भोदमातपत्रमिवाऽवनेः॥४९॥ नीलीरक्तांशुकमयः स व्योम्न इव कञ्चकः । तडिल्लतामण्डनभृत् समन्ताद् व्यानशे दिशः॥५०॥ अत्रान्तरे समुत्तस्थावामूलान्दोलितद्रुमः । पातालकुम्भसर्वस्खमिवोचण्डः समीरणः ॥५१॥ वातेन तेन महता स महानपि वारिदः । अर्कतूलमिवोद्धय दिशोदिशमनीयत ॥ ५२ ॥ आविर्भूतं क्षणान्मेधं विनष्टं च क्षणादपि । तं प्रेक्ष्य स क्षमानाथः सुधीरेवमचिन्तयत् ॥ ५३॥ असौ सम्पश्यमानानां दृष्टनष्टो यथाऽम्बुदः । ज्ञातं तथाऽन्यदपि हि संसारे सर्वमीदृशम् ॥ ५४॥ तथाहि खेच्छया जल्पन् गायन नृत्यन् हसनथ । दीव्यन् विचित्रान् द्रविणार्जनोपायान् विचिन्तयन् ॥ गच्छंस्तिष्ठन् शयानो वाधिरूढो वाहनेपि वा । कुप्यन् वा विलसन् वापि, गृहे वा बहिरेव वा ॥५६॥ * °थशुद्धा संवृ० संल. मो० ॥ १ रसाला 'श्रीखंड' इति भाषायां प्रसिद्धिः । । तत्र जाता श्राव सक० मो० ॥ + त्रिभिर्विशेषकम् सङ्घ मो० ॥ २ निर्दोष साधुयोग्यमचित्तं च । ३ प्रासादतलं 'अगासी' इति लोके ख्यातम् । ४ ऊर्वम् । ५ छत्रम् । ६ प्रचण्डः। ७ वायुः। ESARGAHARANASALA सम्भवजिनपूर्वभवचरितम् ॥२८७॥ Jain Education Intern For Private & Personal use only Twww.ininelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy