SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ROOSSOS रेलरोलैरविरलैः प्रसरद्भिः पदे पदे । अयन्त सतां कर्णाः क्षिप्ताभिरिव सूचिभिः ॥ ३४॥ कल्पान्तकल्पे दुष्काले तसिन् सङ्घ चतुर्विधम् । क्षीयमाणं नृपः प्रेक्ष्य, दध्याविति महामनाः॥३५॥ इयं खलु धरित्री मे त्रातव्या सकलाऽपि हि । किं करोमि परं? पापः कालोऽयं नाऽस्त्रगोचरः ॥३६॥ तथाप्यवश्यं त्रातव्यः सङ्घोऽयमखिलोपि हि । पात्रोपकारे प्रथम महतां यदुपंक्रमः ॥ ३७॥ चिन्तयित्वैवमुवीशः सूदानिति समादिशत् । सङ्घभुक्तावशेष भो! भोक्ष्येऽहं खल्वतः परम् ॥ ३८॥ मत्कृते कृतमन्नादि दातव्यं वतिनामतः । श्रावका भोजयितव्याः पृथक् सिद्धौदनेनं तु ॥३९॥ तथेति प्रतिपद्याऽऽज्ञां राज्ञस्ते सूदपुङ्गवाः । तथैव विदधुर्नित्यं स्वयं चैक्षिष्ट पार्थिवः॥४०॥ नासिकापेयसौरभ्याः कलमाः कमला इव । स्थूला माषकणेभ्योऽपि मुद्गा रससमुंद्गकाः॥४१॥ घृतोदस्य पयांसीव प्रचुराणि घृतानि च । सुधाया इव मित्राणि चित्राणि व्यञ्जनानि च ॥४२॥ मण्डकाः खण्डसम्मिश्रा मोदकाच प्रमोदकाः । खाद्यानि स्वादहृयानि मण्डिकाः खण्डमण्डिताः॥४३॥ सुकुमारा मर्मराली वैटकाचाऽतिपेशलाः । तीमनं च मनोहार' पिच्छिलानि दधीनि च ॥४४॥ प्रकृष्टरुदितकोलाहलैः, 'रडारोल' इति भाषायाम् । २ कल्पान्तसदृशे । अस्त्रघात्यः । ४ गुणवदुपकारे । ५ प्रारम्भः। ६ राजा। ७ पाचकान्। ८ मुनीनाम् । * न च संवृ०॥ ९ पुं-नपुंसकोऽयं शब्दः । १. समुद्गका सम्पुटः 'डबो' इति भाषायां प्रसिद्धः। ११ तन्नान्नः समुद्रस्य । १२ शाकानि । १३ भक्ष्यविशेषा भाषायां "मांडा"1१४ भक्ष्यविशेषा भाषायां "खाजा"। १५ मर्मरशब्दवन्तः। १६ 'वडा' इति भाषायां प्रसिद्धिः। १७ कथिका 'कढी' इति भाषायाम्। * पिच्छला संवृ० मो०॥ १८ चिक्कणानि । CLOCROSS Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy