SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ गुणानुरूपमकरोदर्चनां गुणिनामसौ । विवेकिनां विवेकस्य फलं ह्यौचित्यवर्तनम् ॥९॥ मदस्थानानि तस्याऽऽसन् न मदायाऽन्यलोकवत् । नदीवन्न नदीभर्तुरुत्सेकाय धनागमः ॥१०॥ तस्य चित्ते चैत्य इव सर्वज्ञो देवता सदा । वाचि जैनागम इव सर्वज्ञगुणशंसनम् ॥११॥ देवाय तीर्थनाथाय गुरवे च सुसाधते । स शिरोऽनमयत पृथव्यां सर्वोऽप्यन्यस्तमानमत् ॥ १२॥ अनार्त-रौद्रध्यानेन खाध्यायेन जिनार्चया । उपाददे स परमं मनो-वाग्-वपुषां फलम् ॥ १३ ॥ तस्मिन् श्रावकधर्मोऽभूत् स द्वादशविधोऽपि हि । अनारतमपि स्यान् नीलीराग इवांशुके ॥ १४ ॥ राजचके जागंरूको यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि स बभूव महामनाः ॥१५॥ धर्मप्ररोहबीजानि द्रविणानि यथोचितम् । सप्तक्षेत्र्यां पवित्रात्मा निरन्तरमुवाप सः॥१६॥ दीना-ऽनाथैकशरणादेककारुणिकात् ततः । न रिक्तो निर्ययावर्थी समुद्रादिव वारिदः ॥ १७ ॥ याचकेषु ववर्षाऽथं स पर्जन्य इवोदकम् । केवलं निरहङ्कारो न जगर्ज मनागपि ॥१८॥ कण्टकोच्छेदपरशौ त्यागकल्पमहीरहे । नाभवद् दुःस्थितः कोऽपि तस्मिन् शासति मेदिनीम् ॥ १९॥ तसिन्नपि महीनाथे कदाचिदथ भीषणम् । महादुर्भिक्षमभवद् दुर्लङ्घा भवितव्यता ॥ २० ॥ • * 'वर्तिनाम् संवृ०॥ गर्वाय वृद्धये च । २ प्रशंसा । ३ आर्त-रौद्राख्याशुभध्यानयुगलवर्जितेन धर्म-शुक्लध्यानसहितेनेत्यर्थः । ४ सूत्रार्थतदुभयवाचना-प्रच्छनादिरूपेण । ५ लेभे। ६ अत्यन्तं स्थिरः । ७ वस्ने । ८ जागरणशीलः । ९ धर्माकुरस्य बीजानि हेतव इत्यर्थः । १० द्रव्याणि । ११जिनचैत्यं जिनप्रतिमा पुस्तकं साधुःसाध्वी श्रावकः श्राविका चेति सप्तक्षेत्री। १२ शून्यहस्तः। १३ अर्थीयाचकः । १४ मेघः । १५ भएपमपि । १६ दानकल्पवृक्षे । १७ दुष्कालः । Jain Education In IXIL For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy