SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका तृतीयं पर्व प्रथमः श्रीसम्भवजिनादिशीतलजिनपर्यन्तजिनाष्टकचरितप्रतिबद्धं तृ ती यं पर्व। प्रथमः सर्गः। श्रीसम्भवजिनचरित्रम् । सर्गः पुरुषचरिते महाकाव्ये ॥२८५॥ सम्भवजिनचरितम् । सम्भवजिनदापूर्वभवचरितम् त्रैलोक्यप्रभवे पुण्यसम्भवाय भवच्छिदे । श्रीसम्भवजिनेन्द्राय मनोभवभिदे नमः॥१॥ धात्रीपवित्रीकरणं लैवित्रं कर्मवीरुधाम । चरित्रमथ वक्ष्यामि श्रीसम्भवजिनेशितुः॥२॥ धातकीखण्डद्वीपस्य क्षेत्र ऐरावताभिधे । पुरी क्षेमपुरी नामा क्षेमधामाऽस्ति विश्रुता ॥३॥ तस्यामासीत समायात इवोव्यां मेघवाहनः । महीपतिविपुलधीर्नाम्ना विपुलवाहनः॥४॥ आरामिक इवाऽऽराममविराममसौ प्रजाः । विधिवत् पालयामास च्छिन्दन् शल्यानि सर्वतः ॥५॥ प्रीणयन्ती जनपदान् परितः पथिकानिव । नीतिकल्लोलिनी तस्य प्रससार निरन्तरम् ॥६॥ अपराधं परस्येव स्वस्यापि न्यायतत्परः । असह्यशासनधरः स न सेहे मनागपि ॥ ७॥ उपायं प्रायुत तुर्य दोषमानेन दोषिषु । सोऽगदं गदमानेनाऽऽतुरेष्विव चिकित्सकः॥८॥ मदनविनाशकाय । २ पृथ्वी । ३ छेदकम् । ४ कर्मलतानाम् । * °मकरी ना संवृ०॥ ५ प्रसिद्धा। ६ इन्द्रः। ७ दुःखानि । 1८ नदी। ९ उग्राज्ञाकारकः। १० तुर्य उपायो दण्डः। ११ अपराधानुसारेण । १२ यथा वैद्यः रोगिषु रोगानुसारेण औषधं प्रयुके। ॥२८५॥ Jain Education Inte l For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy