SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अजितस्वा. मिसगरयो निर्वाणम् SARSANSARAKAS पश्चादुपात्तदीक्षोऽपि, तपसाऽध्ययनेन च । चिरप्रव्रजितेभ्योऽपि, राजर्षिः सोऽत्यरिच्यत ॥ ६६३ ॥ घातिकर्मक्षयात् तस्य, केवलज्ञानमुज्वलम् । उदभूद् दुर्दिनच्छेदात् , प्रताप इव भाखतः ॥ ६६४ ॥ , आरभ्य केवलोत्पत्तेरुव्या विहरतः सतः। अजितखामिनः पश्चनवतिर्गणभृद्वराः॥ ६६५॥ लक्षं मुनीनां साध्वीनां, पुनस्त्रिंशत्सहस्रयुक् । लक्षत्रयं पूर्वभृतां, सप्तत्रिंशच्छतानि तु ॥ ६६६॥.. | मनःपर्ययिसहस्राः, सहसाधचतुःशताः । द्वादशाऽवधिभाजां तु, चतुर्णवतिशत्यथ ॥ ६६७॥ उत्पन्न केवलानां तु, द्वाविंशतिसहस्यभृत् । द्वादश वादलब्धीनां, सहस्राः सचतुःशताः॥६६८॥ वैक्रियलब्धिसहस्रा, विंशतिः सचतुःशताः । ऊना द्वाभ्यां सहस्राभ्यां, श्रावकाणां त्रिलक्ष्यथ ॥ ६६९॥ पञ्चचत्वारिंशत्सङ्ख्यैः, सहस्रैरधिकानि तु । श्राविकाणां पञ्चलक्षाण्यजायन्त जगद्गुरोः ॥ ६७० ॥ एकाङ्गोने पूर्वलक्षे, दीक्षाकल्याणकाद् गते । निर्वाणसमयं ज्ञात्वा, सम्मेताद्रिं विभुर्ययौ ॥ ६७१ ॥ लोकाग्रस्येव सोपानं, सम्मेतमधिरूढवान् । द्वासप्ततिपूर्वलक्षसङ्ख्यायुरजितप्रभुः ॥ ६७२ ॥ श्रमणानां, सहस्रेण, समं तत्र जगद्गुरुः । पादपोपगमं नामाऽनशनं प्रत्यपद्यत ॥ ६७३ ॥ - तदा युगपदिन्द्राणामासनानि चकम्पिरे । अनिलान्दोलितोद्यानवृक्षशाखा इवाऽभितः ॥ ६७४ ॥ प्रयुक्तावधयस्ते तु, निर्वाणसमयं प्रभोः । विदाञ्चक्रुरुपेयुश्च, सम्मेतगिरिमूर्धनि ॥ ६७५ ॥ तत्र प्रदक्षिणीचक्रुः, सामरास्ते जगद्गुरुम् । शुश्रूषमाणास्तस्थुश्च, पादान्तेऽन्तिषदो यथा ॥ ६७६ ॥ पादपोपगमस्याऽथ, मासे पूर्णे जगद्गुरुः । चैत्रस्य शुक्लपञ्चम्यां, चन्द्रे मृगशिरस्थिते ॥ ६७७॥ , एकपूर्वाङ्गोने इत्यर्थः । २ शिघ्याः। Jain Education Interne For Private & Personal use only Thow.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy