SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरि ॥२८१ ॥ Jain Education Inte समं भगीरथेनाऽथ, सामन्तादिभिरावृतः । ययौ समवसरणं, सगरो गुरुसम्भ्रमः ॥ ६२० ॥ उत्तरद्वारमार्गेण, तत्र च प्रविवेश सः । प्रविष्टमानी हर्षेण, सिद्धिक्षेत्र इवोच्चकैः ॥ ६२१ ॥ तत्र प्रदक्षिणीच, त्रिश्चक्री धर्मचणिम् । नमस्कृत्य पुरोभूय, स्तोतुं चेति प्रचक्रमे ।। ६२२ ॥ मप्रॆसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योऽन्याश्रयं भिन्द्धि, प्रसीद भगवन् ! मयि ॥ ६२३ || निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः । स्वामिन्! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥ ६२४ ॥ संशयान् नाथ ! हरसेऽनुत्तरखर्गिणामपि । अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः १ ॥ इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः १ । आनन्दसुखश (स) क्तिच, विरक्तिश्च समं त्वयि ।। ६२६ ॥ नाथेयं घट्यमानाऽपि दुर्घटा घटतां कथम् १ । उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ।। ६२७ ॥ द्वयं विरुद्धं भगवंस्तव नाऽन्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्तिता ।। ६२८ ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः १ ।। ६२९ ॥ शमोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ६३० ॥ इति स्तुत्वा जगन्नार्थं, यथास्थानं निषद्य च । सुधानिस्यन्दसधीचीं, सोऽश्रौषीद् धर्मदेशनाम् ॥ ६३१॥ देशनान्ते च सगरो, नमस्कृत्य पुनः प्रभुम् । रचिताञ्जलिरित्यूचे, गद्गदाक्षरया गिरा ।। ६३२ ।। न खो न च परः कोऽपि, तीर्थेश ! तव यद्यपि । तथाप्यज्ञानतो नाथ !, मया पर्यनुयुज्यसे ॥ ६३३ ॥ विश्वमप्युत्तारयसि, भवाम्भोधेर्दुरुत्तरात् । नाथ ! तत्र निमञ्जन्तं कथं मां त्वमुपेक्षसे १ ।। ६३४ ।। १ महाहर्षः । २ आत्मानं प्रविष्टं मन्यते । ३ अजितस्वामिनम् । ४ मम प्रसन्नतायाः । ५ मम प्रसन्नता । ६ इन्द्रोऽपि । For Private & Personal Use Only द्वितीयं पर्व षष्ठः सर्गः अजित सगरयो - श्वरितम् । समरख प्रव्रज्या ॥२८१ ॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy