SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ESCREENSESSAGESAEE आज्ञां कृत्वाऽभ्युपेतं तं, प्रणमन्तं पितामहः । मुहुः शिरसि जघौ च, पृष्ठेऽस्पाक्षीच पाणिना ॥६०५||* भगीरथमथोवाच, सगरः स्नेहगौरवात् । बालोऽप्यसि वयो-बुद्धिस्थविराणां त्वमग्रणीः॥६०६॥ 15 चालोऽस्मीति स मा वादी, राज्यभारं गृहाण नः । तारमो येन निर्भाराः, सन्तः संसारसागरम् ॥६०७॥ भवः खयम्भूरमणाधिवद् यद्यपि दुस्तरः । तीर्णस्तथापि मत्पूर्वैरिति श्रद्धा ममाऽप्यभृत् ॥६०८॥ वत्स ! तेषामप्यपत्य, राज्यभार उपाददे । ततस्तद्दर्शितः पन्थाः, पाल्यतां ध्रियतां मही ॥ ६०९॥ नत्वा भगीरथोऽप्येवमभाषत पितामहम् । युक्तमादित्सते तातः, प्रव्रज्यां भवतारणीम् ॥६१०॥ खामिन् ! व्रतायाऽयमपि, जनः किन्तूत्सुकायते । राज्यदानप्रसादेनाऽप्रसादं मा कृथास्ततः ॥ ६११ ॥ चक्रवर्त्यप्युवाचैवं, युक्तमस्सत्कुले व्रतम् । ततोऽपि किन्त्वभ्यधिकं, गुर्वाज्ञापालनव्रतम् ॥ ६१२ ॥ गृह्णीयाः समये मद्वत् , परिव्रज्यां महाशय ! । स्वापत्ये कवचहरे, निदधीथाश्च मेदिनीम् ॥ ६१३ ॥ श्रुत्वा भगीरथोऽप्येवं, गुर्वाज्ञाभङ्गकातरः । भवभीरुश्च मौन्यस्थाद्, दोलायितमनाचिरम् ॥ ६१४ ॥ ततः सिंहासने स्वस्मिन्नुपवेश्य भगीरथम् । राज्येऽभ्यषिश्चत् सगरस्तदैव परया मुदा ॥ ६१५॥ तदानीं चक्रिणोऽभ्येत्य, शीघ्रमुद्यानपालकाः । शशंसुः समवसृतं, बाह्योद्यानेऽऽजितप्रभुम् ॥६१६॥ पौत्रराज्याभिषेकेणाऽजितखाम्यागमेन च । तदानीं चक्रिणो जज्ञे, हर्षोत्कर्षो यथोत्तरम् ॥ ६१७ ॥ तत्रस्थोऽपि स उत्थाय, नमश्चके जगत्पतिम् । पुरःस्थमिव च शक्रस्तवेनोचैरवन्दत ॥६१८ ।। तेषामुद्यानपालानां, खाम्यागमनशंसिनाम् । ददौ चक्री हिरण्यस्य, कोटीरर्धत्रयोदश॥ ६१९॥ .. अस्पृशत् । २ संसारः। ३ ग्रहीतुमिच्छति । Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy