________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२८० ॥
Jain Education Inter
प्रत्यन्तग्राममेकं तु, सङ्घः सायमवाप सः । निशायां चाऽध्युवा सोपकुम्भकारनिकेतनम् ॥ ५९० ॥ सङ्घ समृद्धं तं दृष्ट्वा, हृष्टो ग्रामजनोऽखिलः । तलुण्ठनार्थमुत्तस्थे, दण्ड- कोदण्ड- खङ्गभृत् ।। ५९१ ।। प्रबोध्य वचनैचाडुगर्भैरमृतसोदरैः । संशुकः कुम्भकारस्तं, ग्रामलोकं न्यवारयत् ॥ ५९२ ॥ कुम्भकारस्य तस्योपरोधाद् ग्रामजनोऽखिलः । भूतः पात्रमिव प्राप्तं तं सङ्घममुचत् तदा ॥ ५९३ ॥ 'अन्येद्युरेकवास्तव्यदस्युदोषान्महीभुजा । सबाल-वृद्धः स ग्रामो, दाहितः परराष्ट्रवत् ।। ५९४ ।। मित्रेणाऽऽमन्त्रितः कुम्भकारो ग्रामान्तरं गतः । दाहात् तेनावशिष्टोऽभूत्, सर्वत्र कुशलं सताम् ॥ ५९५ ।। ततः स कालयोगेन, कालधर्ममुपागतः । वणिग् विराटदेशेऽभूद्, द्वितीय इव यक्षराट् ॥ ५९६ ॥ स तु ग्रामजनो मृत्वा विराटविषयेऽपि हि । जनो जानपदो जज्ञे, तुल्या भ्रूस्तुल्यकर्मणाम् ॥ ५९७ ॥ मृत्वा च कुम्भकुजीवस्तत्राऽभूत् पृथिवीपतिः । ततोऽपि मृत्वा कालेन, देवोऽभूत् परमर्द्धिकः ॥ ५९८ ॥ च्युत्वा च देवसदनाञ्जातोऽसि त्वं भगीरथः । ते च ग्राम्या भवं भ्रान्त्वा, जहुप्रभृतयोऽभवन् ।। ५९९॥ मनस्कृतेन सङ्घोपद्रवरूपेण कर्मणा । युगपद् भस्मसादासन, निमित्तं ज्वलनप्रभः ॥ ६०० ॥ तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । तस्मिन्निव भवेऽत्राऽपि न दग्धोऽसि महाशय ! ।। ६०१ ॥ केवलज्ञानिनस्तस्मादाकयेत्थं भगीरथः । परं संसारनिर्वेदं, विवेकोदधिरादधे ॥ ६०२ ॥ गण्डोपरि स्फोट इव, दुःखं दुःखोपरि प्रभोः । मा भूत् पितामहस्येति, न प्रात्राजीत् तदैव सः ||६०३ || केवलज्ञानिनः पादान्, वन्दित्वाऽथ भगीरथः । रथमारुह्य भूयोऽपि, साकेतनगरं ययौ । ६०४ ॥ १ दयासहितः । २ कुबेरः ।
For Private & Personal Use Only
द्वितीयं पर्व
षष्ठः
सर्गः
अजित
सगरयो -
चरितम् ।
जह्वप्रभृतीनां सगरपुत्राणां भगीरथस्य
च पूर्वभवाः
॥२८० ॥
www.jainelibrary.org.