SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वात्येव तृण्याः कर्षन्ती, वर्तनीवर्तिनी दीः । भगीरथेन पूर्वाम्भोनिधिं गङ्गाऽवतारिता ॥ ५७५ ॥ ततः प्रभृति तत् तीर्थ, गङ्गासागर इत्यभूत् । कृष्टा भगीरथेनेति, गङ्गा भागीरथीति च ॥५७६॥ यत्र यत्र बभखाहिमवनानि वजन्त्यसौ । भगीरथस्तत्र तत्र, नागेभ्यः प्रददौ बलिम् ॥ ५७७॥ तेषां सगरपुत्राणां, शरीरास्थीनि तानि च । तेन गङ्गाप्रवाहेण, निन्यिरे पूर्वसागरम् ॥ ५७८॥ दध्यौ भगीरथश्चैवं, साधु जातमिदं ह्यहो! । मत्पिणां यदस्थीनि, गङ्गयेयुः पयोनिधिम् ॥ ५७९॥ गृध्रादिचचू-चरणविलनान्यन्यथा पुनः । पतेयुरशुचिस्थानेष्वनिलोडूतपुष्पवत् ॥ ५८०॥ एवं विचिन्तयन् प्रीतैर्जलापातापदुज्झितैः । लोकैलॊकम्पृणोऽसीति, प्रशशंसे चिरं हि सः॥५८१ ।। तदा पिणामस्थीनि, तेन क्षिप्तानि यजले । क्षिपत्यद्यापि तल्लोकः, सोऽध्वा यो महदाश्रितः॥५८२॥ ततः स्थानानिववृते, रथारूढो भगीरथः । रथप्रचारेण भुवं, रोसयन् कांस्यतालवत् ।। ५८३ ।। स आगच्छन्नथ पथि, कल्पद्रुममिव स्थितम् । ददशैंकं भगवन्तं, केवलज्ञानिनं मुनिम् ॥ ५८४॥ उदयाद्रेरिवाऽऽदित्यो, गरुत्मानम्बरादिव । सानन्दः स्यन्दनवरात्, तरसादवततार सः॥ ५८५॥ आलोकमात्रे तं नत्वा, भक्त्या केवलिनं मुनिम् । स त्रिः प्रदक्षिणीचक्रे, भक्तिदक्षोऽतिदक्षिणः ॥५८६॥ तं प्रणम्य पुरः स्थित्वा, पप्रच्छैवं भगीरथः । ममाऽम्रियन्त पितरो, युगपत् केन कर्मणा ॥५८७॥ त्रिकालवेदी भगवान्, करुणारससागरः । एवं गदितुमारेमे, मधुरोद्गारया गिरा ॥ ५८८ ॥ श्रावकैर्विपुलश्रीकैः, श्रीदश्रीसंश्रितैरिव । पूर्णः सङ्घश्वचालैकस्तीर्थयात्राकृते पुरा ॥ ५८९ ॥ तृणसमूहान् । २ मार्गान्तर्वर्त्तमानाः । ३ नागभवनानि । ४ जलस्य आपातस्तेन या आपत् तदुसितैः । ५ रासक्रीडां कारयन् । ६ कुधेरलक्ष्म्यानितैरिव । Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy