________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥२७९॥
सगे: अजितसगरयोचरितम् ।
CARS
अष्टमे च परिणमत्युपतस्थे भगीरथम् । पतिर्नागकुमाराणां, प्रसन्नो ज्वलनप्रभः॥ ५६१ ॥ गन्धैधूपैश्च माल्यैश्च, तेनोपचरितो भृशम् । स्वामी नागकुमाराणां, किं करोमीत्यभाषत ।। ५६२ ॥ अथो भगीरथोऽप्यम्भोधरध्वानगभीरगी। उवाच विनयेनापि, सप्रभो ज्वलनप्रभम् ॥ ५६३ ॥ अष्टापदाद्रिपरिखामापूर्येयं सरिद्वरा । निरर्गलं प्रसरति, पनगीव बुभुक्षिता ॥ ५६४ ॥ क्षेत्राण्येषा हि खनति, प्रोन्मूलयति पादपान् । सदृशीकुरुते सर्वान् , स्थपुटानवटानपि ॥ ५६५ ॥ प्रभ्रंशयति वप्रांश्च, प्रासादान दलयत्यलम् । प्रपातयति हाणि, निगृह्णाति गृहाणि च ॥ ५६६ ॥ तां पिशाचीमिवोन्मत्तां, देशविध्वंसकारिणीम् । दण्डेनाऽऽकृष्य पूर्वाधौ, क्षिपामि त्वदनुज्ञया ॥५६७॥ ततः प्रसन्नो ज्वलनप्रभनागस्तमभ्यधात् । निजं समीहितं कुर्या, निर्विघ्नं भवतोऽस्त्विति ॥५६८॥ येऽमुष्मिन् भरतक्षेत्रे, नागास्ते मम शासने । मदनुज्ञाप्रवृत्तः सन्, मा भैपीस्तदुपद्रवात् ॥ ५६९ ॥ अभिधायेति नागेन्द्रः, प्रविवेश रसातलम् । विदधेऽष्टमभक्तान्ते, पारणं च भगीरथः॥ ५७०॥ वैरिणीमिव भिन्नक्ष्मां, स्वच्छन्दां खैरिणीमिव । मन्दाकिनीमथ क्रष्टुं, दण्डरत्नं स आददे ॥ ५७१ ॥ मालामङ्कटकेनेव, दण्डेनाऽऽकर्षति स ताम् । निनदन्ती नदीं चण्डभुजदण्डो भगीरथः॥ ५७२ ॥ कुरूणां मध्यभागेन, नगरं हस्तिनापुरम् । दक्षिणेन पश्चिमेन, पुनः कोशलनीवृतः॥ ५७३ ॥ उत्तरेण प्रयागं च, कासीनां दक्षिणेन च । विन्ध्यान्तर्दक्षिणेनाङ्गान् , मगधानुत्तरेण च ॥५७॥
पूजितः । २ स्थपुटान उच्चप्रदेशान् । ३ अवटान् निम्नप्रदेशान् । ४ मालाकारप्रतिबद्धमणिकरूपाकोटकवत् ।
गङ्गाप्रवाह स्खलनाय भगीरथस्य गमनम्
M
२७९॥
Jain Education
Salle
For Private & Personal use only
www.jainelibrary.org,