SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अग्रणीः सर्वदोषाणामापदामेकमास्पदम् । सम्पदामपहर्तेकः, कर्ता दुर्यशसामपि ॥ ५४६ ॥ अपि वंशस्य संहर्ता, हर्ता निखिलशर्मणाम् । प्रहर्ता परलोकस्य, दर्पो वैरी शरीरजः ॥ ५४७॥ युग्मम् ॥ तद् दर्पः परिहर्तव्यः, सर्पवत् सत्पथस्थितैः । सामान्यैरपि पुरुषैर्मत्पौत्रेण विशेषतः ॥ ५४८॥ यथापात्रं विनीतेन, भवितव्यं ततस्त्वया । गुणप्रकर्षा विनयादशक्तस्यापि जायते ॥ ५४९॥ शक्तस्य पुंसो विनयः, सुवर्णस्येव सौरभम् । निष्कलङ्कवपुष्टेव, पार्वणस्य हिमयुतेः ॥ ५५०॥ सुराणामसुराणां च, नागादीनामपि त्वया । उपचारो यथाक्षेत्रं, कार्यः कार्ये सुखेऽपि हि ॥ ५५१॥ उपचारार्हणीयेषु, नोपचारो हि दोषकृत् । अपचारस्तु दोषाय, पित्तात्मन इवाऽऽतपः ॥ ५५२ ॥ ऋषभखामिपुत्रेण, भरतेनापि चक्रिणा । वशंवदा देव-दैत्या, उपचारेण चक्रिरे ॥ ५५३ ॥ शक्तेनापि सता तेनोपचारो देवतादिषु । दर्शितो यस्तथा कार्यः, स कुलाचार इत्यपि ॥ ५५४ ॥ तथेति तिपेदे स, महाभागो भगीरथः। निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् ॥ ५५५ ॥ अर्पयित्वा दण्डरत्नं, खं प्रतापमिवोर्जितम् । चुम्बित्वा मूर्ध्नि सगरो, विससर्ज भगीरथम् ॥ ५५६ ॥ चक्रिणश्चरणाम्भोजे, प्रणम्याऽथ भगीरथः । सदण्डरनो निरगात् , सविद्युदिव वारिदः॥५५७॥ महता चक्रिसैन्येन, वृतो जानपदैश्च तैः। रेजे भगीरथः शक्र, इवानीकप्रकीर्णकैः ॥ ५५८ ॥ आससाद क्रमेणाऽथाऽष्टापदाद्रिं भगीरथः मन्दाकिन्या वलयितं, त्रिकूटाद्रिमिवाब्धिना ॥५५९॥ उद्दिश्य तत्र तं नागकुमारं ज्वलनप्रभम् । तपोऽष्टमं स विदधे, विधिवेदी भगीरथः॥५६०॥ निष्कलकशरीरता इव । २ पित्तप्रकृतेर्जनस्य । ३ अङ्गीचके । Jan Education inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy