________________
द्वितीय पर्व
'त्रिषष्टि
शलाकापुरुषचरिते ૨૭૮
। एवमानायखेत्युच्चैःपूत्कारकारिणी प्रणामाः सम्भूय, गामार! | ५३६ ।
सर्ग:
कालसेयेन च क्षीरं, रासभेन च वाजिनम् । क्रीणाति योजयेन्मोक्षमसारेणेह वर्मणा ॥५३२॥ युग्मम् ॥
एवमाभाषमाणस्य, तदा सगरचक्रिणः। द्वार्याययुर्विषयिणोऽष्टापदाभ्यर्णवासिनः ॥ ५३३ ॥ असांस्त्रायख त्रायवेत्युच्चैःपूत्कारकारिणः। आजूहवत् तान् सगरचक्रभृद् वेत्रपाणिना ॥ ५३४॥ हंहो! किमिदमित्युच्चैर्भाषिताश्चक्रवर्तिना । कृतप्रणामाः सम्भृय, ग्रामीणास्ते व्यजिज्ञपन् ॥ ५३५ ॥ अष्टापदाद्रिपरिखापूरणाय सरिद्वरा । या कृष्टा दण्डरत्नेन, कुमारैस्तैनरेश्वर! ॥ ५३६ ॥ पातालमिव दुष्पूरां, पूरयित्वा क्षणेन ताम् । साऽतिक्रामत्युभे कूले, कुलटेव कुलद्वयम् ॥ ५३७॥ अष्टापदाभ्यर्णवर्ति, ग्रामा-ऽऽकर-पुरादिकम् । आप्लावयितुमारब्धा, पर्यस्त इव सागरः ॥५३८ ॥ अधुनापि युगान्तोऽयमस्माकं समुपस्थितः । तदादिश वयं कुत्र, तिष्ठामो निरुपद्रवाः? ॥ ५३९ ॥
ततश्च सगरश्चक्री, निजं पौत्रं भगीरथम् । वात्सल्यसारया वाचा, समाहूयेदमादिशत् ॥५४॥ पूरयित्वाऽष्टापदाद्रिपरिखां तां सरिद्वरा । उन्मत्तेव भ्रमन्त्यस्ति, सा ग्रामादिषु सम्प्रति ॥५४१॥ तां दण्डेन समाकृष्य, क्षिप पूर्वपयोनिधौ । अदर्शितपथं याति, पयो बन्धवदुत्पथे॥५४२॥ बाहुवीर्यमसामान्यमैश्वयं भुवनोत्तरम् । अत्युल्वणं हस्तिवलमश्वीयं विश्वविश्रुतम् ॥ ५४३॥ पादातमतिविक्रान्तं, महद् रथवलं तथा । अत्युत्कटः प्रतापश्च, निःसीमं शस्त्रकौशलम् ॥ ५४४ ॥ दैवतानामायुधानां, सम्पत्तिश्चेत्यमृन्यलम् । दर्प यथा द्विषां प्रन्ति, जनयन्त्यात्मनस्तथा ॥ ५४५॥
॥ त्रिभिर्विशेषकम् ॥ तक्रेण । २ शरीरेण । ३ जनपदवासिनो जनाः। ४ अश्वसैन्यम् । ५पदातिसैन्यम् ।
अजितसगरयोचरितम् ।
SURESS
गङ्गाप्रवाहस्खलनाय भगीरथस्य गमनम्
॥२७८॥
Jain Education into
For Private & Personal Use Only
www.jainelibrary.org