SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि. ४८ यथा तथा वा महतां, दर्शनीयो निजो गुणः । गुणार्जनभवः क्लेशः, प्रणश्यत्यन्यथा कथम् ? ॥ ५१७ ॥ तदद्याऽस्मि गतक्लेशो, वजिष्यामि समादिश । सर्वत्राऽपि महार्थोऽस्मि, त्वदग्रे गुणदर्शनात् ॥ ५९८ ॥ कृतार्थीकृत्य भूयिष्ठैरर्थैस्तमवनीपतिः । विससर्ज ततः किञ्चिच्चिन्तयित्वेदमब्रवीत् ॥ ५१९ ॥ यादृग् मायाप्रयोगोऽस्य, संसारोऽप्येष तादृशः । दृष्टनष्टं वस्तु सर्वमस्मिन् बुद्धुद्वद् यतः ॥५२० ॥ चिन्तयित्वा नैकधैवं, विरक्तो भववासतः । उत्सृज्य राज्यं प्रव्रज्यां स जग्राह ततो नृपः ॥ ५२१ ॥ मायाप्रयोगसदृशे, संसारेऽस्मिंस्ततः प्रभो ! । मा शोकविवशो भ्रस्त्वं यतस्व स्वार्थसिद्धये ॥ ५२२ ॥ चक्रिणो भवनिर्वेदः, पदे शोकस्य तावतः । महाप्राण इव महाप्राणस्थानेऽभवत् ततः ।। ५२३ ॥ उदाजहार सगरो, गिरं तत्त्वगरीयसीम् । युष्माभिरभ्यधायीदं, साधु साधु विवेकिनः । ॥ ५२४ ॥ जीवन्ति च म्रियन्ते च, जन्तवः स्वस्वकर्मणा । बालो युवा वा वृद्धो वेत्यप्रमाणं वयः खलु ।। ५२५ ॥ सङ्गमा बान्धवादीनां स्वमसब्रह्मचारिणः । लक्ष्मीर्निसर्गतो दन्तिकर्णताल चलाचला ॥ ५२६ ॥ यौवनश्रीरपि गिरिनदीपूरसहोदरा । जीवितं च कुशाग्रस्थजलबिन्दुविडम्बकम् ।। ५२७ ॥ नया यौवनं याति, वारीव मरुभूमिगम् । न यावदायाति जरा, राक्षसीवायुरन्तकृत् ॥ ५२८ ॥ भवतीन्द्रियवैकल्यं, न यावत् सन्निपातवत् । वेश्येवोपात्तसर्वस्वा, यावच्छ्रीर्न विरज्यति ।। ५२९ ॥ छलयित्वा तावदमून्यखिलान्यपि हि स्वयम् । प्रव्रज्योपायलभ्याय, स्वार्थाय प्रयतामहे ।। ५३० ।। काचखण्डेन स मणि, कृष्णकाकेन केकिनम् । मृणालमालया हारं, कदन्नेन च पायसम् ।। ५३१ ।। 1 मूल्यवान् । २ स्वप्नसदृशाः । ३ चञ्चला । ४ उपात्तं गृहीतं सर्वस्वं यया सा । ५ मयूरम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy