SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अन्वीयमाना न्यग्ग्रीवं, सशोकेन महीभुजा । साश्चर्यैर्वीक्ष्यमाणा च, पौरैः सा सरितं ययौ ॥ ४६०॥ आजहुश्चन्दनैधांसि, तत्राऽऽयुक्ताः क्षणादपि । चितां च रचयाञ्चकुस्तल्पं पितृपतेरिव ॥ ४६१ ॥ पित्रेव पृथिवीशेन, तेन सम्पूरितं वसु । याचकेभ्यो यथाकामं, ददौ कल्पलतेव सा ॥ ४६२ ॥ पयःपूर्णाञ्जलिपुटा, तत्र त्रिः साऽऽ शुक्षणिम् । चक्रे प्रदक्षिणं जातदक्षिणावर्त्तरोचिषम् ॥ ४६३ ।। सतीसत्यापनां कृत्वा, पत्युरङ्गैः सहैव तैः । वासागार इव खैरं, चितान्तः प्रविवेश सा ॥ ४६४ ॥ प्राज्याभिराज्यधाराभिराहुतोऽथ हुताशनः । जज्वालाऽभ्यधिकं ज्वालाजालपल्लविताम्बरः॥ ४६५॥ तानि विद्याधराङ्गानि, सा चैधांसि च तत्क्षणम् । अभवद् भस्मसात् सर्व, जलं लवणसादिव ॥ ४६६ ॥ तत्र तस्या निवापादि, कृत्वा शोकसमाकुलः । आजगाम निजं धाम, ततः स जगतीपतिः ॥ ४६७॥ यावत् सशोकः परिषद्यासाश्चक्रे महीपतिः। आययौ स पुमांस्तावन्नमस्तः फलका-ऽसिभृत् ॥ ४६८॥ भृभुजा पारिषद्यैश्च, वीक्ष्यमाणः सविस्मयम् । मायाविद्याधरः सोऽथ, पुरोभूयेदमब्रवीत् ॥ ४६९॥ दिष्ट्या प्रवर्द्धसे देव!, परस्त्री-धननिःस्पृह! । दुरोदर इव द्वन्द्वे, यथाऽजैषं तथा शृणु ॥ ४७०॥ तदा ह्यहमितः स्थानाच्छरण्य! शरणे तव । विमुच्य दारान् निर्भार, इवोदपतमम्बरे ॥ ४७१ ॥ समापतन्तं साटोपं, तमपश्यं नभस्तले । दुष्टविद्याधरमहं, रुष्टो बंभ्ररिवोरगम् ॥ ४७२ ॥ ऋषभाविव गर्जन्तावूर्जितं दुर्जयावुभौ । अहं च स च युद्धार्थमाह्वास्वहि परस्परम् ॥ ४७३ ॥ नम्रकन्धरं यथा स्यात् तथा । २ शय्याम् । ३ यमस्य । ४ अग्निम् । ५ सतीत्वसत्यतां समर्थ्य । ६ घृतधाराभिः । ७ लवणाधीनम् । ८ गते । ९ नकुलः । Jain Education in lral For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy