SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अथ सा विललापैवं, बलिना च्छलिना द्विषा । हा! हतो मत्पतिरसौ, हा! हतामि तपस्विनी ॥४३१॥ एतत् तदेव वदनं, मत्पतेः पद्मसोदरम् । यन्मया परया प्रीत्या, कुण्डलाभ्यामभूष्यत ॥ ४३२ ॥ तदेतत् तस्य हृदयं, विपुलं हन्त ! मत्पतेः । अन्तर्बहिश्च यद् वासस्थानमेकं ममैव हि ॥ ४३३॥ हा! नाथाऽहमनाथाऽस्मि, त्वां विना नन्दनाद् वनात् । पुष्पाण्यानीय को नाम, ममोत्तंसीकरिष्यति? ४३४|| एकासनसमासीना, विचरन्ती नभोऽङ्गणे । यथासुखं केन समं, वादयिष्यामि वैल्लकीम् ? ॥ ४३५॥ वल्लकीमिव को वा मामुत्सङ्गे धारयिष्यति । शेय्याविशंस्थुलान् को वा, स्थापयिष्यति मेऽलकान् ? ॥४३६॥ कोपिष्यामि मुहुः कस्मै, प्रौढप्रणयलीलया? । मत्पादधातोऽस्तु मुदे, कस्याऽशोकतरोरिव ॥ ४३७ ॥ हा प्रिय! स्तबकीभूतकौमुदीभिरिवाऽद्य मे । गोशीर्षचन्दनरसैः, कोऽङ्गरागं करिष्यति ? ॥ ४३८॥ कपोलपाल्योीवायां, ललाटे कुचकुम्भयोः । कोऽद्य मे पत्ररचनां, सैरन्ध्रीवै विधास्यति ॥ ४३९ ॥ अप्यलीकव्यलीकेन, मानमौनधरां च माम् । आलापयिष्यत्यथ कः, क्रीडाराजशुकीमिव ? ॥४४०॥ प्रिये! प्रिये! देवि! देवीत्यादिचाटुगिरा मुहः । को वा कृतकसुप्तां मां, खयमुद्बोधयिष्यति॥४४१॥ विलम्बेनाऽद्य पर्याप्तममुनाऽऽत्मविडम्बिना । महापथमहापान्थं, नाथ ! त्वामनुयाम्यहम् ॥ ४४२॥ प्राणनाथपथे गन्तुकामा कामं कृताञ्जलिः। सा पावकं यानमिव, ययाचे वसुधाधवात् ॥ ४४३ ॥ तामभाषिष्ट भूपोऽपि, वत्से! स्वच्छाशये! त्वया । पत्युः सम्यगविज्ञाय, कथां किमिदमुच्यते ॥४४४॥ रक्षो-विद्याधरादीनां, मायाऽपि भवतीदृशी । तन्मुहूर्त प्रतीक्षस्व, स्वाधीनं ह्यात्मसाधनम् ॥ ४४५॥ १ वीणाम् । २ शय्यायां विप्रकीर्णान् । ३ निपुणा दासीव । ४ अलीकसुप्ताम् । ५ मृत्युमार्गपथिकम् । Jain Education Interna! For Private & Personal use only Howww.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy