________________
द्वितीय पर्व
त्रिषष्टिशलाकापुरुषचरिते
HOGESCEG4964
॥२७४॥
सर्ग: अजितसगरयोश्चरितम् ।
विचित्रखड्ग-फलकप्रहारध्वनितान्यपि । तडत्तडितिविस्फूर्जत्तडित्ताडानिवाऽशृणोत् ॥ ४१६ ॥ सोऽसि सोऽसि नासि नासि, तिष्ठ तिष्ठ व्रज व्रज । एष त्वां हन्मि हन्मीति, व्योम्नि शुश्रुविरे गिरः॥४१७॥ नृपतिः पर्षदासीनः, पार्षद्यैः सह विसितः । उपरागेक्षण इव, तस्थौ सुचिरमुन्मुखः॥४१८॥ इत्थं सम्पश्यमानस्य, भूपतेः पुरतो भुवि । भुजदण्डः पपातैको, रत्नकङ्कणभूषणः ॥ ४१९ ॥ उपलक्षयितुं तं च, बाहुदण्डं दिवश्युतम् । विद्याधरी पुरोभूय, साऽपश्यञ्च जगाद च ॥ ४२०॥ गण्डयोरुपधानत्वं, कर्णयोरवतंसताम् । कण्ठे च निष्कतां योऽगात् , सोऽयं मत्प्रेयसो भुजः॥४२१॥ एवं वदन्त्यां पश्यन्त्यामेव तस्यां मृगीशि । भुवि पादः पपातैको, दोष्णः प्रीत्येव तस्य तु ॥४२२॥ सपादकटकं पादमुपलक्ष्य तमप्यथ । उदश्रुवदना पद्मवदना साऽवदत पुनः॥ ४२३ ॥ चिरमभ्यक्त उन्मृष्टः, क्षालितोऽथ विलेपितः । स्वहस्तेन मया यो हि, स पादो मत्पतेरयम् ॥ ४२४॥ एवं तस्या बुवाणायाः, पुरो गीर्वाणवर्त्मनः । वातोद्भूतद्रुशाखेव, द्वितीयोऽपि भुजोऽपतत् ॥ ४२५॥ तमप्यालोक्य दोर्दण्डं, रत्नकेयूर-कङ्कणम् । सोवाच स्पन्दमानाक्षी, धारायत्रवधूरिव ॥ ४२६ ॥ सोऽयं सीमन्तरचनाचतुरः केशकङ्कतः । विचित्रपत्रलतिकालीलालिपिकरः करः॥ ४२७ ॥ तस्यास्तत्रैव तिष्ठन्त्या, एवाग्रे गगनाङ्गणात् । पपातानिर्द्वितीयोऽपि, सापि भूयोऽब्रवीदिदम् ॥ ४२८॥ स एष मत्पतेः पादो, मत्कराम्भोजलालितः । अनारतं मदुत्सङ्गशय्यादुर्ललितो हहा॥४२९॥
अथ तत्रैव तत्कालं, मुण्ड-रुण्डौ निपेततुः । हृदयेन समं तस्याः, कम्पयन्तौ महीतलम् ॥ ४३०॥ १ उपरागे ग्रहणे ईक्षणे नेत्रे यस्य सः । २ हृदयाभूषणम् । ३ करस्य । ४ आकाशात् । ५ केशप्रसाधनसाधनम् । शीर्षकबन्धौ ।
सगरप्रतिबोधाय द्वितीयमयुक्तमपरमिन्द्रजालिकोदाहरणम्
SUSACHUSUS
॥२७४॥
Jain Education ine
ral
For Private & Personal use only
www.jainelibrary.org