SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टि शलाकापुरुषचरिते ॥२७३॥ सर्गः अजितसगरयोचरितम् । असि कस्त्वमियं का च?, हेतुना केन चाऽऽगमः। इति राज्ञा स्वयं पृष्टः, स पुमानब्रवीदिति ॥३८६॥ अहं विद्याधरो विद्याधरी चेयं मम प्रिया। विद्याधरेण केनापि, जातवैरोमि भूपते!॥ ३८७ ॥ इयं हि पूर्व तेन स्त्रीलम्पटेन दुरात्मना । सुधा विधुन्तुदेनेवाऽपहृता च्छलकर्मणा ॥ ३८८ ॥ प्रत्याहार्षमहं तस्मादिमां प्राणप्रियां प्रियाम् । नारीपरिभवं राजन्!, सहन्ते पशवोऽपि न ॥३८९॥ चरितार्थी प्रचण्डौ ते, दोर्दण्डौ क्षितिधारणात । अर्थिनां दौस्थ्यघातेन, सम्पच्च सफला तव ॥ ३९० ॥ भीतानामभयदानात् , कृतार्थो विक्रमश्च ते । विदुषां संशयच्छेदादमोघा शास्त्रवैदुषी ॥ ३९१॥ विश्वस्य कण्टकोद्धारात् , फलवच्छत्रकौशलम् । अन्येऽप्यन्योपकारेण, कृतार्थास्ते पृथग्गुणाः॥ ३९२ ॥ परस्त्रीसोदरत्वं च, तवेदं विश्वविश्रुतम् । अस्तु मय्युपकारेण, विशिष्टफलवन्नृप ! ।। ३९३ ॥ प्रियया पार्श्ववर्तिन्या, सन्दानित इवाऽनया । नाऽलम्भविष्णुर्योद्धं हि, परैश्छलपरैरहम् ॥ ३९४ ॥ नाऽहं हस्तिबलं याचे, याचे वाजिबलं न वा । न वा रथवलं याचे, याचे पत्तिबलं न वा ॥ ३९५ ॥ आत्मसाहायिके त्वत्तः, किन्तु याचे नराधिप । एतस्या न्यासवत् त्राणं, परनारीसहोदर!॥ ३९६ ॥ स्वयं स्त्रीलम्पटः कोऽपि, परित्राणसहोऽपि सन् । कोऽप्यस्त्रीलम्पटः खेन, परित्राणासहः परम् ॥३९७॥ त्वमस्त्रीलम्पटनाणसहवासि महीपते । तेन दूरादुपेत्यापि, त्वमसि प्रार्थितो मया ॥ ३९८॥ अयं मत्प्रेयसीरूपो, न्यासश्चेत् स्वीकृतस्त्वया । ज्ञायतां हत एवारिः, स मया बलवानपि ॥ ३९९ ।। अथोल्लसत्सितज्योत्स्नापवित्रमुखचन्द्रमाः। उदारचरितः पृथ्वीपतिरेवमवोचत ॥ ४००॥ १ राहुणा । २ बद्ध इव । ३ शत्रुभिः। * आत्मा साहा संता० सङ्घ ३ ॥ | सगरप्रतियोधाय द्वितीय मयुक्तमपर| मिन्द्रजालिकोदाहरणम् | ॥२७॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy