SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Jain Education Internacial अर्थे भूयस्यपि प्राप्ते, गुणार्जनभवः श्रमः । न याति गुणिनां किन्तु, गुणज्ञानेन गच्छति ॥ ३७१ ॥ अद्य नैमित्तिकीभूय, च्छलेनाऽप्यमुना मया । इन्द्रजालकलाभ्यासं, ज्ञापितोऽसि प्रसीद मे ॥ ३७२ ॥ सदस्या न्यक्कृतास्ते यच्चिरं यत् त्वं च मोहितः । राजन् ! सहस्व तत् सर्वं नाऽपराधोऽस्ति तत्त्वतः ॥ ३७३ ॥ इत्युदित्वा स्थिते तस्मिन् पार्थिवः परमार्थवित् । निजगादेति पीयूषस्यन्दसोदरया गिरा ॥ ३७४ ॥ राजानं राजसभ्यांश्च, न्यक्कार्षमिति चेतसि । मास्म भैषीरहो ! विप्रोपकारी परमोऽसि मे ।। ३७५ ॥ इन्द्रजालमिदं ह्यद्य, दर्शयित्वा त्वया द्विज ! । तत्तुल्यमेतं संसारमसारं ज्ञापितोऽस्म्यहम् ॥ ३७६ ॥ दृष्टनष्टमिदं यद्वत्, त्वयाऽऽविर्भावितं जलम् । तद्वत् पदार्थाः सर्वेऽपि, संसारेऽद्यापि का रतिः १ ॥ ३७७॥ चिरमित्यादिसंसारदोषान् व्याहृत्य भूपतिः । कृतार्थीकृत्य तं विप्रं प्रव्रज्यामाददे स्वयम् ॥ ३७८ ॥ तदिन्द्रजालरूपोऽयं, भवोऽस्माभिरनूद्यते । प्रभो ! वेत्सि स्वयं हि त्वं, सर्वज्ञकुलचन्द्रमाः ॥ ३७९ ॥ वाचस्पतिमतिर्वाचा, शोकॅशल्य विशल्यया । इत्युवाच द्वितीयोऽपि, मन्त्री नृपतिपुङ्गवम् ॥ ३८० ॥ इहैव भरतक्षेत्रे, कस्मिन्नपि पुरे पुरा । बभूव नृपतिः कोऽपि, विवेकादिगुणाकरः ॥ ३८१ ॥ तमास्थानस्थमन्येद्युः, पार्थिवं कोऽपि पूरुषः । मायाप्रयोगनिष्णं खं, ज्ञापयामास वेत्रिणा ॥ ३८२ ॥ प्रवेशं नृपतिस्तस्य, नौनुजज्ञे विशुद्धधीः । न मायिनामृजूनां चाऽजैर्य शाश्वतवैरिवत् ॥ ३८३ ॥ प्रतिषेधविलक्षः सन्, स नीत्वाऽहानि कानिचित् । चक्रे रूपपरावर्त, कामरूप इवामरः ॥ ३८४ ॥ स तमेवान्यदा भूपमुपतस्थे विहायसा । कृपाणपाणिः फैलकी, वरनारीसमन्वितः ॥ ३८५ ॥ ३ अमृतरससमानया । २ शोक एव शल्यं तदर्थं विशल्यौषधितुल्यया । ३ नानुमेने । ४ मैत्री । ५ फलकधरः । 1 For Private & Personal Use Only सगरप्रतिबोधाय द्वितीयमध्युक्तमपरमिन्द्रजालिकोदाहरणम् www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy