SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व 'त्रिषष्टि शलाकापुरुषचरिते ॥२७२॥ सगे अजितसगरयो चरितम् । मनस पत्तनस्याऽस्याऽवशेषः पृथिवीपते ।। अन्तरीप इवाऽयं ते, प्रासादः प्रेक्ष्यतेऽधुना ॥ ३५६ ॥ अध्यारोहति सोपानवीथीषु च पयोऽस्खलत् । तव प्रसाददुर्मत्तमिव सेवक-राजकम् ॥ ३५७॥ पूरिता प्रथमा भूमिद्वितीयाऽप्यद्य पूर्यते । तामापूर्य तृतीयापि, पूर्यते भूमिरम्भसा ॥ ३५८॥ चतुर्थी पञ्चमी षष्ठी, चापि भूः पश्यतोऽपि हि । अहो! क्षणार्धमात्रेण, पूरिता वार्धिवारिभिः ॥३५९॥ विषवेगैरिवाऽम्भोभिराक्रान्तस्याऽस्य समनः । शिरोगृहं शिर इव, शरीरस्याऽवशिष्यते ॥ ३६०॥ उपस्थितो युगान्तोऽयमुक्तपूर्वीदमस्म्यहम् । व ते सदस्यास्ते राजन्!, ये मां हैसितपूर्विणः १॥३६१॥ ततश्च विश्वसंहारशोकाद् राजापि सत्वरम् । झम्पादानार्थमुत्थायाऽवनात् परिकरं दृढम् ॥ ३६२॥ प्लवङ्गम इवोत्पत्य, ददौ झम्पां महीपतिः । स्खं च सिंहासनासीनं, तं चाऽपश्यत् तथास्थितम् ॥३६३॥ ययौ च क्वचिदप्यम्भस्तदम्भोधेः क्षणादपि । तस्थौ च विस्मयस्मेरलोचनः स महीपतिः॥३६४॥ अभग्नाभुग्नवृक्षा-द्रि-प्राकार-भवनादिकम् । ईक्षाश्चके तथावस्थं, विश्वं विश्वम्भरापतिः॥ ३६५॥ मायानैमित्तिकः सोऽपि, कट्यामाबध्य मर्दलम् । आस्फालयन् वपाणिभ्यां, पपाठेति ससम्मदः॥३६६॥ इन्द्रजालप्रयोगादौ, नमामि चरणाम्बुजे । इन्द्रजालकलास्रष्टुर्वज्रिणः शम्बरस्य च ॥ ३६७ ॥ निजसिंहासनासीनस्ततः स पृथिवीपतिः। किमेतदिति साश्चर्यो, द्विजन्मानमभाषत ॥ ३६८॥ अवदद् ब्राह्मणोऽप्येवं, निःशेषाणां कलाविदाम् । गुणप्रकाशी राजेति, पुराऽसि त्वामुपस्थितः॥३६९॥ इन्द्रजालं मतिभ्रंशकारीति न्यकृतस्त्वया । प्रदीयमानमप्यर्थमनादाय गतोऽस्म्यहम् ॥ ३७॥ द्वीप इव । २ पूर्व हसितवन्तः । ३ अभुम्ना अनताः। ४ देवविशेषः । ५ तिरस्कृतः। सगरप्रतिबोधाय सुबुद्धिमज्युक्तं तानि. | कोदाहरणम् ॥२७२॥ Jain Education inte For Private & Personal use only www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy