SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व षष्ठः त्रिषष्टिशलाकापुरुषचरिते ॥२६९॥ सर्गः अजितसगरयोश्चरितम् । भूभुजा खस्य कार्पण्यदोषारोपणभीरुणा । पुरुषैर्धार्यमाणोऽपि, निर्ययौ पुरुषोऽथ सः ॥ २६९ ॥ स्वामिनाथं दीयमानमसौ नाऽऽदत्त कोपतः । दातैवाऽसीति राज्ञो हीरपजहे स्वपूरुषैः ॥ २७ ॥ _ विप्रवेषमुपादाय, स एव पुरुषोऽन्यदा । उपायनकरस्तस्थौ, द्वारि तस्यैव भूपतेः ॥ २७१॥ तथैव राज्ञे विज्ञप्तः, स द्वाःस्थेन तथास्थितः । धर्मोऽसौ प्रतिहाराणां, द्वारागतनिवेदनम् ॥ २७२ ।। आदेशाद् भूपतेस्तस्य, सभायां तत्र वेत्रभृत् । आयुक्तपुरुषैराशु, तं पुमांसमवीविशत् ॥ २७३ ॥ स स्थित्वा भूपतेरग्रे, समुन्नमितपाणिकः । आर्यवेदोदितान् मत्रानपठत् सपदक्रमम् ॥ २७४ ॥ मन्त्रपाठावसाने च, वेत्रिसन्दर्शितासने । निषसाद प्रसादादृशा राज्ञा निरीक्षितः ॥ २७५॥ कस्त्वं? किमागतोऽसीति, पृष्टश्च पृथिवीभुजा । कृताञ्जलिरुवाचैवमग्रणीः सोऽग्रंजन्मनाम् ॥ २७६ ॥ ज्ञानानामिव मूर्तानां, सद्गुरूणामुपासनात् । अवाप्तसम्यगाम्नायो, राजन् ! नैमित्तिकोऽस्म्यहम् ॥२७७॥ अष्टाधिकरणीग्रन्थान् , फलग्रन्थानथाऽखिलान् । जातकं गणितग्रन्थान् , जानामि निजनामवत् ॥ २७८॥ सन्तं भूतं भविष्यन्तमर्थ सर्व नरेश्वर! । तपःसिद्धो मुनिरिवाऽव्याहतं कथयाम्यहम् ॥ २७९ ॥ __अन्वयुक्त ततो राजा, यदस्मिन् समये द्विज!। यद्भावि तत् कथय भो', ज्ञानस्य प्रत्ययः फलम्॥२८॥ द्विजोऽपि कथयामास, वासरे सप्तमेऽर्णवः। जगदेकार्णवीकृत्य, प्रलयं प्रापयिष्यति ॥ २८१॥ तद्वाचा विस्मय-क्षोभौ, बिभ्राणो युगपन्नृपः । नैमित्तिकानामन्येषामीक्षाञ्चके मुखान्यथ ॥ २८२॥ राज्ञा भ्रूसंज्ञया पृष्टा, रुष्टा दुर्घटया तया । द्विजवाचा सोपहासमूचुनैमित्तिकास्तु ते ॥ २८३ ॥ ऊर्ध्वबाहुः। २ ब्राह्मणानाम् । ३ अस्खलितम् । सगरप्रतिबोधाय सुबुद्धिमयुक्तं तानि. कोदाहरणम् ॥२६९॥ - JainEducation in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy