________________
असावभिनवः कोऽपि, जज्ञे ज्योतिपिको यदि।ज्योति शास्त्राण्यपि स्वामिन् !, जज्ञिरे नूतनानि किम्?॥२८४ एप येषां प्रमाणेन, विश्वमेकार्णवं जगत् । करिष्यत्यर्णव इति, ब्रूते श्रवणदुःश्रवम् ॥ २८५ ॥ बभूवुर्ग्रह-नक्षत्र-तारा अपि हि किं नवाः? । येषां वक्रातिचारादिप्रमाणादेष वक्त्यदः॥२८६ ॥ सर्वज्ञशिष्यगणभृद्रथितद्वादशाङ्गतः । ज्योतिःशास्त्राणि यानीह, नैवं तदनुमानतः ॥ २८७॥ अमी तच्छास्त्रसंवादभाजो येऽर्कादयो ग्रहाः। तेषामप्यनुमानेन, मन्महे नेदृशं वयम् ॥ २८८ ॥ जम्बूद्वीपपरिक्षेपी, यश्चाऽयं लवणार्णवः । सोऽपि त्वमिव मर्यादां, जातुचिन्न हि लवते ॥२८९॥ आकाशाद् भूमिमध्याद् वा, कश्चिदुत्पद्य नूतनः । करिष्यत्यर्णवो विश्वमिदमेकार्णवं यदि ॥२९० ॥ । अयं साहसिकः किं वा, पिशाचाधिष्ठितोऽथवा। मत्तो वा यदि वोन्मत्तो, वातूलो वा निसर्गतः ॥२९॥ अकालं चाऽऽगमेऽधीती, किमपस्मारवानथ ? । यदीदृशमसम्बद्धमभिधत्ते निरर्गलः ॥२९२ ॥ युग्मम् ॥ स्थिरः सुमेरुवत् स्वामी, भूवत् सर्वसहश्च यत । दृष्टैः प्रकटमीक्षं, स्वच्छन्दैस्तदुदीयते ॥ २९३ ॥ सामान्यस्यापि पुरतो, नेदृशं वक्तुमीश्यते । कोप-प्रसादशक्तस्य, किं पुनः खामिनः पुरः ॥ २९४ ॥ वचसो दुर्वचस्याऽस्य, वक्ता धीरः किमेष वा। धीरः किमथवा श्रोता, यः श्रुत्वापि न कुप्यति ॥२९५॥ ईदृक्षमपि चेत् स्वामी, श्रद्धत्ते श्रद्दधातु तत । विना विप्रतिपत्तिं च, प्रत्येतव्यमदोपि हि ॥ २९६ ॥ पर्वता उत्पतन्त्युच्चैराकाशे कुसुमानि च । वैश्वानरः शीतरुचिर्वन्ध्यायाश्च स्तनन्धयः॥ २९७ ॥ चक्रीवतो विषाणं च, दृषदस्तरणं जले । अवेदना नारकाच, नो चेदस्याऽपि वाक् तथा॥२९८॥ युग्मम् ॥ १ कुशलः। २ अग्निः । ३ पुत्रः। ४ गर्दभस्य ।
CLOUCASUSASCALUCSK
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org