SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२६८॥ Jain Education Intern किं वा वीणाप्रवीणोऽसि ?, किं वेणुनिपुणोऽसि वा ? । पटुः पटहवाद्ये वा १, मर्दले वाऽसि दुर्मदः १ ॥ २४१ ॥ यद्वा वकारोऽसि ?, किं शिक्षागाय नोऽसि वा ? । रङ्गाचार्योऽथवाऽसि त्वं १, किं नाटकनटोऽसि वा १ ॥ अथ वैतालिकोऽसि त्वं ?, नग्नाचार्योऽथवाऽसि किम् ? । संशप्तकोऽसि यदि वा ?, चारणो यदि वाऽप्यसि १ ॥ लिपिज्ञलेखको वा किमसि ? चित्रकरोऽथवा ? । अथ पुस्तकरो वा त्वमन्यो वा कोऽपि शिल्प्यसि ? ॥ २४४ ॥ नदी-नद नदीनाथतरणे वा कृतश्रमः ? । मायेन्द्रजाल - कुहक प्रयोगचतुरोऽसि वा ? ।। २४५ ।। एवं वसुमतीनाथेनाऽनुयुक्तः स सादरम् । भूयोऽपि हि नमस्कृत्य, सप्रश्रयमदोऽवदत् ॥ २४६ ॥ पाथसामिव पाथोधिरादित्यस्तेजसामिव । सर्वेषां पात्रभूतानां त्वमाधारो धराधव ! ॥ २४७ ॥ वेदादिशास्त्रविज्ञेषु, सँहाधीतीव तादृशः । धनुर्वेदादिविद्वत्सु, तदाचार्य इवाऽधिकः ॥ २४८ ॥ प्रत्यक्षो विश्वकर्मेव, विश्वस्मिन् शिल्पकर्मणि । सरस्वतीव पुंरूपा, गीतादिककलासु च ॥ २४९ ॥ रत्नादिव्यवहारेषु, पितेव व्यवहारिणाम् । बन्धादीनामुपाध्याय, इव वाग्मितयाऽस्मि च ।। २५० ॥ नद्यादिवारितरणं, कलालेशः कियान् मम ? । इन्द्रजालप्रयोगार्थं, किन्त्वस्मि त्वामुपागतः ।। २५१ ॥ अहं हि सद्य उद्यानवीथिकां दर्शयामि ते । मध्वादीनां परावर्तमृतूनां कर्तुमीश्वरः ॥ २५२ ॥ गन्धर्ववर्गसङ्गीतं, व्योमन्याविष्करोमि च । क्षणाददृइयो दृश्यो वा निमेषान्तर्भवाम्यहम् ॥ २५३ ॥ भक्षयाम्यहमङ्गारान् खादिरानपि सक्तुवत् । चर्वयामि मुकवत्, तप्तायस्तोमरानपि ॥ २५४ ॥ १ मुखेन गायकः । २ स्तुतिपाठकः । ३ युद्धादनिवर्त्तनप्रतिज्ञाकारी । ४ मृन्मयरूपघटकः । ५ सहाध्यायी । ६ सर्वस्मिन् । ७ पूगफलवत् । ८ अस्त्रविशेषान् । For Private & Personal Use Only द्वितीयं पर्व षष्ठः सर्गः अजित सगरयो - श्चरितम् । सगरप्रतिबो धाय सुबुद्धिमयुक्तं तात्रिकोदाहरणम् ॥२६८ ॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy