________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व षष्ठः सर्गः अजितसगरयोचरितम् ।
॥२६७॥
यथा नैसर्गिकं धैर्य, महत तस्य महीपतेः। मोहोऽप्यागन्तुको जज्ञे, पुत्रक्षयभवस्तथा ॥ २१३ ॥ एककोश इव खड्गावेकस्तम्भ इव द्विपौ । प्रबोध-मोहौ युगपत् , तदा राज्ञि बभूवतुः॥ २१४ ॥
अथ बोधयितुं भूपं, सुबुद्धिर्नाम बुद्धिमान् । वाचा पीयूषसध्रीच्येत्युवाच सचिवाग्रणीः ॥ २१५॥ अम्भोधयोऽपि मर्यादा, लङ्घयेयुः कदाचन । आसादयेयुः कम्पं च, कदाचन कुलाचलाः॥ २१६॥ अवाप्नुयात् तरलतां, कदाचिदपि मेदिनी । अपि जर्जरतां वज्रमश्नुवीत कदाचन ॥ २१७ ॥ त्वादृशास्तु महात्मानो, व्यसनेषु महत्स्वपि । उपस्थितेषु वैधुर्य, न भजन्ते मनागपि ॥ २१८॥
॥त्रिभिर्विशेषकम् ।। क्षणाद् दृष्टं क्षणान्नष्टं, कुटुम्बाद्यखिलं भवे । विवेकिन इति ज्ञात्वा, न मुह्यन्ति यथा शृणु ॥ २१९ ॥
जम्बूद्वीप इह द्वीपे, क्षेत्रे भरतनामनि । कसिंश्चिन्नगरे कोऽपि, पुराऽभूत् पृथिवीपतिः ।। २२०॥ जिनधर्मसरोहंसः, सदाचारपथाध्वगः । प्रजामयुरीजलदो, मर्यादापालनाम्बुधिः ॥ २२१॥ सर्वव्यसनकक्षाग्निर्दयावयेकपादपः । कीर्तिकल्लोलिनीशैलः, शीलरत्नैकरोहणः ॥ २२२ ॥ स एकस्मिन् दिने स्वस्थामास्थान्यां सुखमास्थितः । यथाक्षणं विज्ञपयाम्बभूवे वेत्रपाणिना ॥ २२३ ॥ पुष्पदामकरो द्वारि, कलाविदिव कोऽपि ना । विज्ञीप्सुः किश्चिद्यैव, देवपादान् दिदृक्षते ॥ २२४ ॥ पण्डितः किं कविः किंवा, गन्धर्वः किं नटोऽथ किम् । छान्दसो वा नीतिविद्वाऽस्त्रविद् वाऽथेन्द्रजालिकः॥ इति न ज्ञायते ज्ञातं, त्वाकृत्या गुणवानिति । यत्राऽऽकृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥ २२६ ॥ १ अमृतसमानया। २ सर्वव्यसनतृणवह्निः । २ सभायाम् ।
सगरप्रतिबोधाय सुद्धिमयुक्तं तानिकोदाहरणम्
॥२६७॥
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org.