SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ SRUS निष्पन्नं च व्रीहिवणं, दग्धं च दववहिना । धर्मा-ऽर्थ-कामयोग्याश्च, जाता यूयं हताश्च हा!॥१९९ ॥ ॥ त्रिभिर्विशेषकम् ॥ प्राप्याऽपि मद्गृहं वत्सा, अकृतार्था गता हहा! । आढ्यस्य कृपणस्येव, वेश्मोपेत्य वनीपकाः ॥२०॥ तदद्य किं मे चक्राये, रत्ननिधिभिरप्यलम् । युष्मान् विना विरहिणो, ज्योत्स्नोद्यानादिकैरिव ॥२०१॥ पटखण्डभरतक्षेत्रराज्येन यदि वाऽसुर्भिः । असुभ्योऽपि प्रियैः पुत्रैर्विनाभूतस्य किं मम ॥ २०२ ॥ एवं विलापिनमथो, भूनाथं श्रावकद्विजः । स बोधयितुमित्यूचे, सुधामधुरया गिरा ॥ २०३॥ धात्र्याः परित्राणमिव, प्रबोधोऽपि तवाऽन्वये । मुख्याधिकारसम्प्राप्तो, मुधाऽन्यैर्देव! बोध्यसे ।।२०४॥ जगन्मोहार्यमा यस्य, साक्षाद् भ्राताजितप्रभुः। अन्येन बोध्यमानस्य, तस्य लज्जा न किं तव ॥२०५॥ असावसारः संसारो, ज्ञाप्यतेऽन्यस्य ते पुनः । जन्म प्रभृति सर्वज्ञसेवकस्य किमुच्यते ॥ २०६॥ पितरो मातरो जायास्तनयाः सुहृदोऽपि च । स्वप्नदृष्टोपमं राजन्, संसारे सर्वमप्यदः ॥२०७॥ यत प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही!, पदार्थानामनित्यता ॥२०८॥ तत्त्ववित् स्वयमेवासि, स्खं धैर्ये स्थापय स्वयम् । रविणा द्योत्यते विश्वं, नाऽपरो द्योतको रवेः ॥२०९॥ लवणोद इवाऽम्भोधिर्मणिभिलवणेन च । पक्षमध्यतमिस्रेवाऽऽलोकेन तिमिरेण च ॥ २१०॥ राकानिशाकर इव, ज्योत्स्नया लाञ्छनेन च । हिमाद्रिरिव दिव्याभिरोषधीभिर्हिमेन च ॥ २११॥ तद् विप्रवचनं शृण्वन् , पुत्रान्तं च मुहुः सरन् । बोधेन च विमोहेन, चानशे पृथिवीपतिः॥२१२ ॥ ॥ त्रिभिर्विशेषकम् ॥ १ याचकाः। २ प्राणैः। ३ जगतां मोहनाशने सूर्यसमः। ४ पूर्णिमाचन्द्रः । अपरिचितेन द्विजेन सगरस्थाश्वासनम् Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy