SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२६॥ कथं न कोऽपि ब्रूते वः १, सत्यमुक्तं द्विजन्मना । दस्युनेव च्छलझेन, दैवेन मुषितोऽसि ही ॥१८५॥5॥ द्वितीयं पर्व अरे रे दैव! कुत्राऽसि ?, कुत्राऽसि ज्वलनप्रभ! । अक्षत्रमिदमाचर्य, क्वाऽयासी गपांशन! ॥१८॥ सेनापते ! व तेऽगच्छद्दण्डदोर्दण्डचण्डिमा। क्षेमङ्करत्वमगमत् , क्व पुरोहितरन! ते॥१८७॥ सर्ग: गलितं वर्धके ! किंते, दुर्गनिर्माणकौशलम् । गृहिन् ! सञ्जीवनौषध्यः, किं ते कुत्रापि विस्मृताः॥१८८॥ अजितगजरत्न: किमाप्तस्त्वं, तदा गजनिमीलिकाम् ? । अश्वरत्न! समुत्पन्नं, शूलं किं भवतस्तदा ॥१८९॥ सगरयो चरितम् । चक्र-दण्डा-ऽसयो! यूयं, किंतदानीं तिरोहिताः? अभूतां मणि-काकिण्यौ!, निष्प्रभौ किं दिनेन्दुवत् १९० आतोद्यपुटवद् भिन्ने, किं युवां छत्र-चर्मणी!? | नवापि निधयो यूयं, ग्रस्ताः किमनया भुवा? ॥१९॥ युष्मद्विश्वासतोऽशकं, रममाणाः कुमारकाः । सर्वैरपि न यत् त्रातास्तस्मात् पन्नगपांसनात् ॥ १९२ ॥ करोम्येवं विनष्टे किमिदानीं ज्वलनप्रभम् ? । सगोत्रमपि चेद्धन्मि, न हि जीवन्ति मे सुताः॥१९३॥ विलापः ऋषभस्वामिनो वंशे, नैवं कोऽप्यासदन्मृतिम् । त्रपाकरमिमं मृत्यु, हा वत्साः! कथमामत ?॥१९४॥ पूर्व मदीयाः सर्वेऽपि, पुरुषायुषजीविनः । दीक्षामाददिरे वर्गमपवर्ग च लेभिरे ॥ १९५ ॥ खेच्छाविहारश्रद्धाऽपि, भवतां न ह्यपूर्यत । अरण्यानीसमुत्पन्नभूरुहामिव दोहदः॥ १९६ ॥ उदियाय च पूर्णेन्दुर्दैवाद् ग्रस्तश्च राहुणा । फलेग्रहिश्च सञ्जज्ञे, तरुर्भग्नश्च कुम्भिना ॥ १९७॥ ॥२६६॥ आगता च तरी तीरं, भग्ना च तटभूभृता । उन्नतश्च नवाम्भोदो, विकीर्णश्च नभस्वता ॥ १९८॥ १ चौरेणेव । २ खेदे । ३ नागाधम । ४ गजवद् नेग्रनिमीलिकाम् । ५ महदरण्यमरण्यानी। ६ फलवान् । ७ गजेन । ८ नौः । सगरस्थ RRARA Jan Education www.jainelibrary.org For Private & Personal use only &
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy