SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व त्रिषष्टिशलाका पुरुषचरिते सर्गः ॥२६५॥ अजितसगरयोश्चरितम्। RRC-RECORDCRELESEDGEOCESSOCIEDO अत्यन्तशून्यमनसः, पिशाच-किन्नरा इव । उदश्रुलोचना दीना, मुषिताः कृपणा इव ॥ १५८ ॥ प्रस्खलच्चरणन्यासा, दष्टा इव भुजङ्गमैः । आस्थानं युगपद् राज्ञोऽविशन् सङ्केतिता इव ॥१५९ ॥ राजानं ते नमस्कृत्य, यथास्थानमुपाविशन् । विविक्षव इव क्षोणी, ते च तस्थुरधोमुखाः॥१६०॥ तां विप्रवाचमाकर्ण्य, दृष्ट्वा तांश्च तथाविधान् । कुमारवर्जमायाताननिपादिद्विपानिव ॥ १६१॥ लिखितो नृल्लिखितो नु, सुप्तो नूत्तम्भितो नु वा । शुन्यो निष्पन्दनयनो, द्रागभूदवनीपतिः॥१६२॥ ॥ युग्मम् ॥ आप्तमूर्छमधैर्येण, धैर्येण च तथास्थितम् । पुनर्बोधयितुं विप्रः, प्रोवाच पृथिवीपतिम् ॥ १६३ ॥ त्वमसि मापते ! विश्वमोहनिद्राविवस्वतः। ऋषभस्वामिनो वंश्यो, भ्राता चास्यजितप्रभोः॥१६४॥ इत्थं पृथग्जन इव, भवन् मोहवशंवदः । तयोः कलङ्कमाधत्सेऽधुना किं धरणीधव! ? ॥ १६५॥ राजाऽपि दध्यौ विप्रोऽयं, स्वपुत्रान्तापदेशतः । मत्पुत्रक्षयनाट्यस्य, जगौ प्रस्तावनामिमाम् ॥१६६॥ व्यक्तं च शंसत्यधुना, कुमाराणामसौ क्षयम् । कुमारवर्ज चाऽऽयाताः, प्रधानपुरुषा अमी ॥ १६७॥ कुतः सम्भाव्यते तेषां, क्षयश्च मनसापि हि । भुवि सञ्चरतां स्वैरं, बने केसरिणामिव ? ॥ १६८॥ महारत्नपरीवारा, दुर्वाराः स्वौजसाऽपि हि । केन शक्या निहन्तुं ते, हन्तास्खलितशक्तयः? ॥१६९॥ चिन्तयित्वेति किमिदमिति पृष्टाः क्षमाभुजा । ज्वलनप्रभवृत्तान्तं, शशंसुः सचिवादयः ॥ १७०॥ १ सभाम् । २ प्रवेष्टुमिच्छवः। ३ हस्तिपकरहितगजानिय । * यथा सङ्घ २॥ ४ स्वस्थम् । ५ साधारणजनः । ६ ऋषभाजितस्वामिनोः। ७ स्वपुत्रमरणमिषात् । अपरिचितेन द्विजेन खपुत्रमरणमिषेण सगरस्य प्रतिबोधनम् ॥२६५॥ JainEducation For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy